________________
तृतीयोऽध्यायः।
१७९
समयन्तु सम्यग्जानन्तु । के ? महाधियः कुशाग्रीयप्रज्ञाः । कम् ? द्रव्यानुयोगसमयं सिद्धान्तसूत्रतत्त्वार्थपञ्चास्तिकायादिशास्त्रम् । किं कर्तुम् ? वेदितुं निश्चेतुम् । को ? जीवाजीवौ । न केवलं तौ बन्धमोक्षौ। न केवलं तौ पुण्यपापे च । __ एवं चतुरनुयोगसंगृहीतस्य जिनागमस्य सदा सम्यगुपास्तेः फलमाहसकलपदार्थबोधनहिताहितबोधनभावसंवरा, नवसंवेगमोक्षमार्गस्थिति तपसि चात्र भावनान्यदिक् । सप्तगुणाः स्युरेवममलं विपुलं निपुणं निकाचितं सार्वमनुत्तरं वृजिनहृजिनवाक्यमुपासितुः सदा ॥ १३ ॥
द्विपदीछन्दः । स्युर्भवेयुः । के ? गुणाः। कति ? सप्त सकलपदार्थबोधनादयः । कस्य ? उपासितुः साधुत्वेन सेवमानस्य । किम् तत् ? एवं प्रथमानुयोगादिप्रकारेण अत्रेदानीं वर्तमानं जिनवाक्यमर्हत्प्रवचनम् । कथम् ? सदा नित्यम् । किंविशिष्टम् ? अमलं पूर्वापरविरोधादिदोपरहितम् । तथा विपुलं लोकालोकार्थव्यापि । तथा निपुणं सूक्ष्मार्थ. दर्शि। तथा निकाचितमर्थावगाढम् । तथा सार्व सर्वेभ्यो हितम् । तथा अनुत्तरं परमोत्तमम् । नास्त्युत्तरं परमस्मादिति । तथा वृजिनहृत् पापापहारि । सकलपदार्थबोधनं त्रिकालगोचरानन्तद्रव्यपर्यायस्वरूपज्ञानम् । हिताहितबोधनम् । हितं सुखं तत्कारणं च । अहितं दुःखं तत्कारणं च । तद्बोधनं तत्प्राप्तिपरिहारज्ञानम् । भावसंवरो मिथ्यात्वाद्यास्त्रवनिरोधः । शुद्धस्वात्मानुभूतिपरिणाम इत्यर्थः । सकलपदार्थबोधनं च हिताहितबोधनं च भावसंवरश्चेति विग्रहः । नवसंवेगः प्रतिक्षणमन्यान्यसंसारभीरता मोक्षमार्गे व्यवहारनिश्चयरत्नत्रये स्थितिर. वस्थानं तस्मादविचलनं, मोक्षमार्गस्थितिः। नवसंवेगश्च मोक्षमार्गस्थितिशेति समाहारः । तपसि रागादिनिग्रहोपाये भावनाऽभ्यासः । अन्य. दिक परोपदेशश्च । इति सप्त ।
१ द्वयोः पदयोः समाहारोऽयम् , अतो नपुंसकैकवचनतात्र ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org