SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ १७८ अनगारधर्मामृते प्रणेयः परिचेयः प्रणिधेय इत्यर्थः । कोसौ ? करणानुयोगो लोकानुयोगलोकविभागपञ्चसंग्रहादिलक्षणं शास्त्रम् । क ? हृदि चित्ते । कैः ? करणातिगैः । करणानि चक्षुरादीन्द्रियाण्यतिगच्छन्त्यतीत्य वर्तन्ते इति । -जितेन्द्रियैरित्यर्थः । किंविशिष्टोसौ ? चतुर्गतीत्यादि । चतस्रो नारकतिर्यग्मनुष्यदेवत्वलक्षणा गतयो नरकादिगतिनामकर्मोदयजन्या जीवस्य पर्यायाः । युगावर्त उत्सर्पिण्यादिकालपरावर्तनम् । लोक्यन्ते जीवादयः षट्पदार्थी अस्मिनिति लोकस्त्रिचत्वारिंशदधिकशतत्रयमात्ररज्जुपरिमित आकाशावकाशः । ततोन्योऽलोकोऽनन्तानन्तमानावच्छिन्नः केवलाकाशरूपः । चतस्रश्च तागतयश्चतुर्गतयः।युगानां सुषमसुषमादिकालविभागानामावर्तः परिवर्तनं युगावर्तः । लोकश्वालोकश्च लोकालोकौ । तयोविभागः पृथक्त्वम् । चतुर्गतयश्च युगावर्तश्च लोकालोकविभागाश्च चतुर्गतियुगावर्तलोकालोकविभागाः । तान्वेत्ति यथावजानाति योसौ करणानुयोगज्ञानपरिणत आत्मेत्यर्थः। चरणानुयोगमीमांसायां प्रेरयति सकलेतरचारित्रजन्मरक्षाविधिकृत् ।। विचारणीयश्चरणानुयोगश्चरणादृतैः ॥ ११ ॥ विचारणीयश्वर्चनीयः । कोसौ ? चरणानुयोगः । आचाराङ्गोपासकाध्ययनादिशास्त्रम् । कैः ? चरणाहतैश्चारित्रोद्यतैः । किंविशिष्टः ? सकलेत्यादि । चारित्रं हिंसादिभ्यो निवृत्तिः । सकलं समग्रमितरद विकलं देशविरतिः । सकलं चेतरच्च सकलेतरे। ते च ते चारित्रे च सकलेतरचारित्रे । तयोर्जन्म चाभूतयोः प्रादुर्भावो, रक्षा च प्रादुर्भूतयोरतीचारनिरासो, विवृद्धिश्च रक्षितयोरुत्कर्षांपादनं सकलेतरचारित्रजन्मरक्षाविवृद्धयः । ताः करोति तत्प्रतिबन्धकक्षयोपशगादौ सति जनयति योसौ तथोक्तः। द्रव्यानुयोगभावनायां व्यापारयति जीवाजीवौ बन्धमोक्षी पुण्यपापे च वेदितुम् । द्रव्यानुयोगसमयं समयन्तु महाधियः ॥ १२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy