________________
तृतीयोऽध्यायः ।
१७७
द्यर्थानां ते प्रथमादयः । तेषामनुयोगः प्रश्नोत्तरम् । तदम्बु जलमिव तृष्णाविच्छेदहेतुत्वात् । किंविशिष्टम् ? बृष्टमुदीर्णम् । कैः ? सन्मेधैः । सन्तः शिष्टा भगवजिनसेनाचार्यादयो मेघा जलदा इव विश्वोपकारकत्वात् । किं कृत्वा ? उद्धृत्य उच्चित्य संगृह्येत्यर्थः । कस्मात् ? श्रुताब्धेः
परमागमसमुद्रात् ।
प्रथमानुयोगाभ्यासे नियुङ्क्ते --
पुराणं चरितं चार्थाख्यानं बोधिसमाधिदम् । तत्त्वथार्थी प्रथमानुयोगं प्रथयेत्तराम् ॥ ९ ॥ पुराणं पुराभवमष्टाभिधेयं त्रिषष्टिशलाकापुरुषकथाशास्त्रम् । यदार्षम् -
लोको देशः पुरं राज्यं तीर्थ दानं तपोद्वयम् । पुराणस्याष्टधाख्येयं गतयः फलमित्यपि ॥ लोकस्तु —
सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च । वंशानुचरितं चेति पुराणं पञ्चलक्षणम् ॥
चरितमेकपुरुषाश्रिता कथा । अर्थाख्यानमर्थस्य परमार्थसतोभिधेयस्याख्यानं प्रतिपादनं यत्र येन वा । बोधिरप्राप्तानां सम्यग्दर्शनादीनां प्राप्तिः प्राप्तानां तु पर्यन्तप्रापणम् । समाधिर्धर्म्यशुक्लध्याने वा । तौ दत्ते यत्तद्वोधिसमाधिदं तच्छ्रवणात्तत्प्राप्त्याद्युपपत्तेः ॥ प्रथयेत्तरामितरानुयोग
यादतिशयेन प्रकाशयेत् तदर्थप्रयोगदृष्टान्ताधिकरणत्वात्तस्य । कोसौ ? तत्त्वथार्थी | तत्वस्य हेयस्योपादेयस्य च प्रथां प्रकाशमर्थयतेऽभीक्ष्णमिति तदर्थो । कम् ? प्रथमानुयोगम् । किंलक्षणम् ? पुराणं चरितं च । पुनः किंविशिष्टम् ? अर्थाख्यानम् । पुनरपि किंविशिष्टम् ? बोधिसमाधिदम् ।
करणानुयोगोपयोगे प्रयुङ्क्ते -
चतुर्गतियुगावर्तलो का लोकविभागवित् ।
हृदि प्रणेयः करणानुयोगः करणातिगैः ॥ १० ॥
अन० ६० १२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org