________________
१७६
अनगारधर्मामृते
तदेव ज्ञानमनन्तासंख्येया संख्येयभागवृद्ध्या संख्येया संख्येयानन्तगुवृद्ध्या च वर्धमानमसंख्येयलोकपरिमाणं प्रागक्षरश्रुतज्ञानात् पर्यायसमासोऽभिधीयते । अक्षरश्रुतज्ञानं स्वेकाकाराद्यक्षराभिधेयावगमरूपं श्रुतज्ञानसंख्येयभागमात्रम् । तस्योपरिष्टादक्षरसमासोऽक्षरवृद्ध्या वर्धमानो द्वित्र्याद्यक्ष रावबोधस्वभावः पदावबोधात्पुरस्तादेवं पदसमासादयोऽपि भा - वश्रुतभेदाः पूर्वसमासान्ता विंशतिर्यथागममधिगन्तव्याः । द्रव्यश्रुतं त्वाचारादिद्वादशभेदमङ्गप्रविष्टम् । अङ्गबाह्यं च प्रकीर्णकाख्यं सामायिकादि चतुर्दशभेदम् । तत्प्रपञ्चोपि प्रवचनाच्चिन्त्यः ।
श्रुतोपयोगविधिमाह-
तीर्थादाम्नाय निध्याय युक्त्याऽन्तः प्रणिधाय च । श्रुतं व्यवस्येत् सद्विश्वमनेकान्तात्मकं सुधीः ॥ ७॥
सुधीर्धीधनो व्यवस्येन्निश्चिनुयात् । किं तत् ? विश्वं जीवादिवस्तुजातम् । किंविशिष्टम् ? अनेकान्तात्मकं द्रव्यपर्यायस्वभावम् । पुनः किंविशिष्टम् ? सद् उत्पादव्ययधौव्ययुक्तम् । किं कृत्वा ? आम्नाय आगमय्य । गृहीत्वेत्यर्थः । किं तत् ? श्रुतम् । कस्मात् ? तीर्थादुपाध्यायात् । तथा निध्याय अवलोक्य । कया ? युक्त्या हेतुना । च तथा प्रणिधाय समाधाय निश्चलमारोप्य । क्व ? अन्तः स्वात्मनि । श्रुतं खल्वविशदतया समस्तं प्रकाशयति । तदुक्तम्
श्रुतं केवलबोधश्च विश्ववोधात्समं द्वयम् । स्यात्परोक्षं श्रुतज्ञानं प्रत्यक्षं केवलं स्फुटम् ॥
प्रयोगः - सर्वमनेकान्तात्मकं सत्त्वात् । यन्नेत्थं तन्नेत्थं, यथा खपुष्पमिति । तीर्थाम्नाय पूर्वकं श्रुतमभ्यस्येदित्युपदिशति-
वृष्टं श्रुताब्धेरुद्धृत्य सन्मेधैर्भव्यचातकाः । प्रथमाद्यनुयोगाम्बु पिबन्तु प्रीतये मुहुः ॥ ८ ॥
पिबन्तु आस्वादयन्तु । कथम् ? मुहुः पुनः पुनः । के ? भव्यचातकाः । भव्याश्चातकास्तोकका इव चिरमप्राप्तसदुपदेशजलत्वात् । किम् ? प्रथमाद्यनुयोगाम्बु । प्रथमः पुराणाद्यर्थ आदिर्येषां करणा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org