________________
तृतीयोऽध्यायः।
श्रूयते इति श्रुतं ज्ञानरूपं शब्दरूपं च वक्तुर्यस्मिज्ञाने सति शब्दोचारणं श्रोतुः शब्दश्रवणानन्तरं च यज्ज्ञानं तनावश्रुतं, तन्निमित्तं तु वचनं द्रव्यश्रुतम् । तत्राद्यं विकल्पनिरूपणरूपं स्वविप्रतिपत्तिनिराकरणफलत्वात्स्वार्थमुच्यते। परं पुनः शब्दप्रयोगरूपं परविप्रतिपत्तिनिराकारणफलत्वात्परार्थमिति । - यद्येवं द्विधा स्थितं श्रुतं तर्हि तद्भेदाः सन्ति न सन्ति वा ? सन्ति चेदुच्यन्ताम् । इत्याह
तद्भावतो विंशतिधा पर्यायादिविकल्पतः ।
द्रव्यतोङ्गप्रविष्टाङ्गबाह्यभेदाद् द्विधा मतम् ॥६॥ मतमिष्टं सूरीणाम् । किं तत् ? तच्छुतम् । कतिधा ? विंशतिधा विंशतिप्रकारम् । कस्मात् ? पर्यायादिविकल्पतः पर्यायतत्समासादिभेदात् । कुतोसौ ? भावतो भावमन्तस्तत्वमाश्रित्य तथा तन्मतम् । कतिधा? द्विधा द्विप्रकारम् । कस्मात् ? अङ्गप्रविष्टाङ्गबाह्यभेदात् । कुतः ? द्रव्यतो द्रव्यं बहिस्तत्त्वमाश्रित्य । अथ विस्तरः__ तत्र.पर्यायो लब्ध्यपर्याप्तसूक्ष्मनिगोतस्य प्रथमसमये जातस्य प्रवृत्तं सर्वजघन्यं ज्ञानम् तद्धि लब्ध्यक्षरापराभिधानमक्षरश्रुतानन्तभागपरिमाणत्वात् सर्वज्ञानेभ्यो जघन्यं नित्योद्घाटं निरावरणं च । न हि तावतस्तस्य कदाचनाप्यभावो भवत्यात्मनोप्यभावप्रसङ्गादुपयोगलक्षणत्वात्तस्य । तदुक्तम् ।
सुहमणिगोदअपजत्तयस्स जादस्स पढमसमयम्हि । हवदि हु सव्वजहण्णं णिचुग्घाडं णिरावरणं ॥ तथा,
सूक्ष्मापूर्ण निगोदस्य जातस्याद्यक्षणेप्यदः।
श्रुतं स्पर्शमतेर्जातं ज्ञानं लब्ध्यक्षराभिधम् ॥ एतच्च सूक्ष्म निगोत (द) सर्वजघन्यक्षयोपशमापेक्षया निरावरणं, न तु सर्वथा । वस्तुत उपरितनक्षायोपशमिकज्ञानापेक्षया केवलज्ञानापेक्षया च सावरणं, संसारिणां क्षायिकज्ञानाभावाच क्षायोपशामिकमेव ।
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org