________________
१७४
अनगारधर्मामृते
इत्यादि । कस्मात् ? वस्तुतत्त्वनियतत्वात् ।
वस्तुनः सामान्य विशेषात्मनस्तत्त्वं याथात्म्यं वस्तुतत्वम् । तत्र नियताः प्रतिनियतवृत्या निबद्धाः । तेषां भावस्तस्त्वं तस्मात् । तथाहि । इन्द्रियजा मतिः कतिपयपर्यायविशिष्टं मूर्तमेव वस्तु वेत्ति । मनो मतिस्तु तथाविधं मूर्तममूर्त च । अवधिस्तु तथाविधान् पुद्गलान् पुद्गलसंबद्धांश्च जीवान् । मनः पर्ययस्तु सर्वावधिज्ञानविषयान विषयानन्तिमभागमपीति । यथास्वमात्मीयप्रयोजनानतिक्रमेण । तथा हि-श्रोत्रं शास्त्रश्रवणादौ चक्षुर्जिन प्रतिमाभक्तपानमार्गादिनिरीक्षणे, मनश्च गुणदोषविचारणस्मरणादौ, तथाऽवधिं संदिग्धश्रुतार्थनिर्णये स्वपरायुः परिमाणादिनिश्चये च मुमुक्षवो व्यापारयन्ति । एवं मनः पर्ययमपि ।
श्रुतसामग्री स्वरूप निर्णयार्थमाह
स्वावृत्त्यपायेऽविस्पष्टं यन्नानार्थप्ररूपणम् ।
ज्ञानं साक्षादसाक्षाच्च मतेर्जायेत तच्छ्रुतम् ॥ ५॥
तच्छ्रुतं कथ्यते । यत्किम् ? यज्जा येतोत्पद्येत । किं तत् ? ज्ञानम् । किंविशिष्टम् ? अविस्पष्टमविशदम् । पुनः किंविशिष्टम् ? नानार्थप्ररूपणम् । नानार्थ उत्पादव्ययधौव्यात्मकमनेकान्तात्मकं वा वस्तु । तस्य प्ररूपणं सम्यक् स्वरूपनिश्चयनम् । श्रुतमविस्पष्टतर्कणमित्यभिधानात् । कुतो जायेत ? मतेर्मतिज्ञानात् । कथम् ? साक्षाद्व्यवधानेनासाक्षाच्च व्यवधानेन । वसति ? स्वावृत्त्यपाये श्रुतज्ञानावरणक्षयोपशमे सति । घट इत्यादिशब्दश्रवणलक्षणाया धूमोयमित्यादि चक्षुरादिज्ञानलक्षणायाश्च मतेजतिं हि शब्दयोजनसहितं क्रमेण घटादिज्ञानं वह्न्यादिज्ञानं च शब्दजं लिङ्गजं च श्रुतं स्यात् । ततश्च जातं जलधारणादिज्ञानं पाकादिज्ञानं च श्रुतं श्रुतपूर्वमप्युपचारेण मतिपूर्वमित्युच्यते । उक्तं च
मतिपूर्व श्रुतं दक्षैरुपचारान्मतिर्मता । मतिपूर्व ततः सर्व श्रुतं ज्ञेयं विचक्षणैः ॥
तथा,
अर्थादर्थान्तरज्ञानं मतिपूर्वं श्रुतं भवेत् । शाब्दं तल्लिङ्गजं चात्र यनेकद्विषभेद्गम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org