________________
तृतीयोऽध्यायः।
ननुगामी वर्द्धमानो हीयमानश्चेति षोढा स्यात् । परमावधिरनवस्थितहीयमानवर्जनाच्चतुर्धा । सर्वावधिस्त्ववस्थितोनुगाम्यननुगामी चेति त्रेधा । भवति चात्र श्लोकः
देशावधिः सानवस्थाहानिः स परमावधिः ।
वर्धिष्णुः सर्वावधिस्तु सावस्थानुगमेतरः॥ तल्लक्षणविकल्पस्वामिशास्त्रं त्विदम्
अवधीयते इत्युक्तोऽवधिः सीमा सजन्मभूः । पर्याप्तश्वभ्रदेवेषु सर्वाङ्गोत्थो जिनेषु च ॥ गुणकारणको मर्त्यतिर्यश्वब्जादिचिन्हजः।
सोवस्थितोनुगामी स्याद्वर्धमानश्च सेतरः॥ इत्यादि । किंचावधिज्ञानिनां नाभेरुपरि शङ्खपद्मादिलाञ्छनं स्याद् , विभङ्गज्ञानिनां तु नाभेरधः सरटमर्कटादि ।
परमनोगतोर्थो मन इत्युच्यते तस्य परिस्फुटमयनं परिच्छेदनं मनःपर्ययः । तल्लक्षणं यथा
स्वमनः परीत्य यत्परमनोनुसंधाय वा परमनोर्थम् । विशदमनोवृत्तिरात्मा वेत्ति मनःपर्ययः स मतः॥ तत्स्वरूपविशेषशास्त्रं त्विदम्चिन्तिताचिन्तिता दिचिन्तिताद्यर्थवेदकम् । स्यान्मनःपर्ययज्ञानं चिन्तकश्च नृलोकगः ॥ द्विधा हृत्पर्ययज्ञानमृज्व्या विपुलया धिया । अवक्रवाङ्मनःकायवर्त्यर्थर्जुमतिस्त्रिधा ॥ स्यान्मतिर्विपुला षोढा वक्रावक्राङ्गवाग्घृदि । तिष्ठतां व्यञ्जनार्थानां षनिदां ग्रहणं यतः॥ पूर्वोस्त्रिकालरूप्यर्थान्वर्तमाने विचिन्तके। वेत्त्यस्मिन् विपुला धीस्तु भूते भाविनि सत्यपि ॥ विनिद्राष्टदलाम्भोजसन्निभं हृदये स्थितम् । प्रोक्तं द्रव्यमनस्तज्ज्ञैर्मनःपर्ययकारणम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org