________________
१७२
अनगारधर्मामृते
1
केन ? पयसा जलेन । निर्मलीभवत्येवेत्यर्थः । किंविशिष्टं सत् ? विहितोपपरिष्वङ्गम् । विहितः कृतः उषेण क्षारमृत्तिकया परिष्वङ्गः संश्लेषो यस्य तत्तथोक्तम् ॥
मत्यादिज्ञानानामप्युपयोगो मुमुक्षूणां स्वार्थसिद्ध्यै विधेय इत्युपदे
शार्थमाह
मत्यवधिमनःपर्ययबोधानपि वस्तुतत्त्वनियतत्वात् । उपयुञ्जते यथास्वं मुमुक्षवः स्वार्थसंसिद्ध्यै ॥ ४॥
1
उपयुञ्जते स्वार्थग्रहणे व्यापारयन्ति । के ? मुमुक्षवः । कान् ? मत्यवधिमनः पर्ययबोधानपि । मतिश्चावधिश्च मनःपर्ययश्च मत्यवधिमनःपर्ययाः । ते च ते बोधाश्च ज्ञानानि । न केवलं श्रुतं किन्त्वेतानपीत्यपि शब्दार्थः । कस्मात् ? वस्तुतत्त्व नियतत्त्वात् । कथम् ? यथास्वं यथायथम् । कस्यै ? स्वार्थसंसिद्ध्यै । स्वार्थस्यानन्तसुखस्यात्यन्तिक दुःख निवृत्तेश्च संसिद्धिः संप्राप्तिस्तस्यै । इतो विस्तरः - मतिज्ञानावरणक्षयोपशमे सतीन्द्रियमनसी अग्रे कृत्वा व्यापृतः सन्नर्थं मन्यते जानात्यात्मा यया सा मतिः । तद्भेदाः मत्यादयः । तत्र मन्यते यया बहिरन्तश्च परिस्फुटं सावमहाद्यात्मिका मतिः स्वसंवेदनमिन्द्रियज्ञानं च सांव्यवहारिकं प्रत्यक्षम् । तदिति स्वयमनुभूतातीतार्थग्राहिणी प्रतीतिः स्मृतिः । तदेवेदं तत्सदृशं तद्विलक्षणं तत्प्रतियोगीत्यादि प्रत्यभिज्ञानं संज्ञा । अग्निना विना क्वचित्कदाचिद्धूमो न भवत्यात्मना विना शरीरे व्यापारवचनादिकं न भवतीत्यादि तर्कणमूहश्चिन्ता । धूमादिदर्शनादश्यादिप्रतीतिरनुमानमभिनिबोधः । रात्रौ दिवा वाsकस्माद्वाह्यकारणमन्तरेण श्वो मे भ्रातागमिष्यतीत्येवंरूपं यद्विज्ञानमुत्पद्यते सा प्रतिभा । अर्थग्रहणशक्तिर्बुद्धिः । पाठग्रहणशक्तिर्मेधा ऊहापोहात्मिका प्रज्ञा । इत्यादयो मतिज्ञानस्यैकस्येन्द्रियानिन्द्रियनिमित्तस्य प्रकाराः प्रतिपत्तव्याः ।
स्वावरणक्षयोपशमे सत्यधोगतं बहुतरं द्रव्यमवच्छिन्नं वा नियतं रूपद्रव्यं धीयते व्यवस्थाप्यतेऽनेनेत्यवधिर्मुख्य देशप्रत्यक्षज्ञान विशेषः । स श्रेधा देशावध्यादिभेदात् । तत्र देशावधिरवस्थितोऽनवस्थितो नुगाम्य
Jain Education International
-
For Private & Personal Use Only
www.jainelibrary.org