________________
तृतीयोऽध्यायः ।
१७१
तेन हृदयसुरकटीभवन्मनः प्रसादो येषां ते तथोक्ताः । ब्राह्मो हि मुहूर्तः पञ्चदशमुहूर्ताया रात्रेश्वतुर्दशो मुहूर्तो घटिकाद्वयम् । स च चित्तकालुष्यापसारणद्वारेण संदेहादिच्छेदाद्यथार्थं बुद्धिमुद्बोधयन् प्रसिद्धः । यन्नीतिः"ब्राह्मे मुहर्ते उत्थायेति कर्तव्यतायांसमाधिमुपेयात् । सुखनिद्राप्रसन्ने हि मनसि प्रतिफलन्ति यथार्था बुद्धय" इति ।
श्रुताराधनायाः परंपरया केवलज्ञानहेतुत्वमुपदर्शयन् भूयस्तत्रैव प्रोसाहयति
कैवल्यमेव मुक्त्यङ्गं स्वानुभूत्यैव तद्भवेत् । सा च श्रुतैकसंस्कारमनसातः श्रुतं भजेत् ॥ २ ॥
भजेन्मुमुक्षुः । किं तत् ? श्रुतम् । कस्मात् ? अतः । यतो भवेत् । किम् ? मुक्त्यङ्कं मोक्षस्य साक्षात्कारणम् । किं तत् ? कैवल्यमेवासहायज्ञानमेव, न मत्यादिकम् । तच्च भवेत् । कया ? स्वानुभूत्यैव स्वसंवित्त्यैव । सा च स्वानुभूतिर्भवेत् । केन ? श्रुतैकसंस्कारमनसा । श्रुतस्य श्रुतज्ञानस्यैक उत्कृष्टः संस्कारो भावना यस्य तच्छ्रुतैकसंस्कारम् । तस्मिन्मनश्वान्तःकरणं, तेन ॥
मनसः श्रुतसंस्कारपुरःसरस्वसंवेदनोपयोगेन शुद्धचिद्रूपतापरिणति ह ष्टान्तेन स्पष्टयति-
श्रुतसंस्कृतं स्वमहसा स्वतत्त्वमाप्नोति मानसं क्रमशः । विहितोषपरिष्वङ्गं शुद्ध्यति पयसा न किं वसनम् ॥ ३ ॥
आप्नोति लभते । किंतत् ? मानसं मनः । किम् ? स्वतत्त्वं शुद्धचिन्मानं तस्यैव मुमुक्षुभिरपेक्षणीयत्वात् । केन ? स्वमहसा स्वसंवेदनेन । किंविशिष्टं सत् ? श्रुतसंस्कृतं श्रुतज्ञानेन भावितम् । केन ? क्रमशः कालक्रमपरिपाकेण । उक्तं च
।
अविद्याभ्याससंस्कारैरवशं क्षिप्यते मनः । तदेव ज्ञानसंस्कारैः स्वतस्तत्त्वेव तिष्ठते ॥
अन्न समर्थनमाह – किं न शुद्ध्यति । किं तत् ? वसनं वस्त्रम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org