________________
अथ तृतीयोऽध्यायः ॥३॥
"विद्यावृत्तस्य संभूतिस्थितिवृद्धिफलोदयाः। न सन्त्यसति सम्यक्त्वे बीजाभावे तरोरिव ॥" इति प्रथमं सम्यक्त्वमाराध्येदानीं सम्यग्ज्ञानाराधनां प्रस्तौति । तत्र तावत्परमज्ञानप्राप्युपायभूतत्वाच्छ्रुतस्य तदाराधनायां मुमुक्षूनियुङ्क्तेसद्दर्शनब्राह्ममुहूर्तदृप्यन्मनःप्रसादास्तमसा लवित्रम्। भक्तुं परं ब्रह्म भजन्तु शब्दब्रह्माजसं नित्यमथात्मनीनाः॥१॥
अथ सम्यक्स्वाराधनानन्तरं भजन्त्वाराधयन्तु । के ? ते आत्मनीना आत्मने हिता मुमुक्षवः । किं तत् ? शब्दब्रह्म श्रुतज्ञानम् । किंविशिष्टम् ? आअसं पारमार्थिकम् । स्वात्माभिमुखसंवित्तिरूपमित्यर्थः । उक्तं च
गहियंतं सुयणाणा पच्छा संवेयणेण भाविजो। जो ण हु सुअमवलंबइ सो मुज्झइ अप्पसब्भावे ॥ लक्खणदो णियलक्खं अणुहवमाणस्स जे हवे सुक्खम् । सा संवित्ती भणिया सयलवियप्पाण णिड्डहणं ॥ लक्खमिह भणियमादा झेअं सब्भावसंगदो सो जि।
वेयण तह उवलद्धी दंसणणाणं च लक्खणं तस्स ॥ कथं भजन्तु ? नित्यं, तदाराधनस्यैव सर्वपुरुषार्थसिद्धेः प्रधानतमोपा. यत्वात् । किं कर्तुम् ? भक्तुमाराधयितुम् । किं तत् ? ब्रह्म । किं विशिष्टम् ? परं शुद्धचिद्रूपं स्वात्मस्वरूपम् । तद्धि शब्दब्रह्मभावनावष्टम्भादेव सम्यग्द्रष्टुं शक्येत । तथा चोक्तम्स्यात्कारश्रीवासवश्यैर्नयौघैः पश्यन्तीत्थं चेत्प्रमाणेन चापि । पश्यन्त्येव प्रस्फुटानन्तधर्म स्वात्मद्रव्यं शुद्धचिन्मात्रमन्तः॥ किंविशिष्टं परं ब्रह्म ? लवित्रं छेदनम् । केषाम् ? तमसा मोहस्य ज्ञानदर्शनावरणान्तरायाणां च । शब्दब्रह्मणो वा विशेषणमिदम् । कथंभूता भूत्वा तनजन्तु ? सदित्यादि । सदर्शनं ब्राह्ममुहूर्त इव चित्तप्रसत्तिहेतुत्वात्।
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org