________________
१६८
अनगारधर्मामृते
अत्र दृष्टान्तमाह — संस्क्रियोद्येव बीजमिति । इवशब्दो यथार्थे । यथान्वेति । कासौ ? संस्क्रिया मञ्जिष्ठादिरागानुवेधः । किंविशिष्टा ? उद्या विस्तीर्णा बीजान्तर्बहिर्भागव्यापिनी । किम् ? बीजं कर्पासादिप्ररोहणम् । क्व ? जन्मान्तरेपि पुनः प्रादुर्भावे । किं पुनस्तत्पर्याये इत्यपि शब्दार्थः । येन किम् ? येन पूर्यते साध्यते संपूर्णीक्रियते इत्यर्थः । कथम् ? अभीक्ष्णं नित्यं प्रतिक्षणमित्यर्थः । किं कुर्वता ? बिभ्रता धारयता दृशम् । कथं कृत्वा ? अक्षोभम् । निराकुलं वहतेत्यर्थः । किं कृत्वा ? एकलोली. कृत्य मिश्रयित्वा दृशम् । केन सह ? स्वेनात्मना । कथम् ? सुष्टु दृढं कृत्वा । दर्शनविशुद्धिमयमात्मानं कृत्वेत्यर्थः । किं कृत्वा ? उद्योत्य निर्मलीकृत्य दृशम् । कथम् ? इति मिथ्यादृक् यो न तत्त्वं श्रयतीत्यादिप्रबन्धोक्तेन प्रकारेण । अत्रेत्युद्योत्येत्यनेन सम्यक्त्वस्योद्योतनाख्याराधना बोध्या । स्वेन सुकलोली कृत्येत्य नेनोद्यवनाख्या, अक्षोभं बिभ्रतेत्यनेन निर्वहणाख्या, पूर्यते भीक्ष्णमित्यनेन साधनाख्या, तं जीवमित्यादिना च निः
सरणाख्या ।
-
क्षायिकेतरसम्यक्त्वयोः साध्यसाधनभावं ज्ञापयति
सिद्धयोपशमिक्येति दृष्ट्या वैदिकयापि च ।
क्षायिकीं साधयेद् दृष्टिमिष्टदूतीं शिव श्रियः ॥ ११४॥ साधयेन्निष्पादयेन्मुमुक्षुः । काम् ? दृष्टिं विपरीताभिनिवेशविविक्तात्मरूपात्मकं तत्त्वार्थश्रद्धानम् । किंविशिष्टाम् ? क्षायिकीम् । क्षयो मिथ्यात्वसम्यग्मिथ्यात्वसम्यक्त्वाख्यानां तिसृणां दर्शन मोहप्रकृतीनामनन्तानुबन्धिक्रोधमानमायालो भारव्यानां चतसृणां चारित्रमोहप्रकृतीनां चात्यन्तिको विश्लेषः । क्षयः प्रयोजनमस्या इति क्षायिकी । किंविशिष्टाम् ? इष्टदूतीम् । इष्टा अभिमता अत्यन्तमान्यत्वादनुल्लंघ्यवचना दूती संचारिका इष्टा चासौ दूती च इष्टदूती । कस्याः ? शिवनियोऽनन्तज्ञानादिचतुष्टयलक्षणाया जी - बम्मुक्तेः परममुक्तेश्च । यथा हीष्टदूती नायिकां नायकेन सहावश्यं योज. यति तथा क्षायिकदृष्टिरात्मना मुक्तिमित्यर्थः । कया तां साधुः साधयेदित्याह दृष्ट्या तत्वार्थश्रद्धया । किंविशिष्टया ? औपशमिक्या । उपशमो मिथ्यात्वादिसप्तप्रकृतीनामनुद्भूतिः । उपशमः प्रयोजनमस्या इत्यौपशमिकी तथा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org