________________
द्वितीयोऽध्यायः।
१६७
अष्टाङ्गपुष्टस्य संवेगादिविशिष्टस्य च सम्यक्त्वस्य दृष्टान्ताक्षेपमुखेन स्फुटयतिपुष्टं निःशङ्कितत्वाधैरङ्गैरष्टाभिरुत्कटम् । संवेगादिगुणैः कामान् सम्यक्त्वं दोग्धि राज्यवत् ॥ ११२ ॥
दोग्धि प्रपूरयति । किंतत् ? सम्यक्त्वम्। कान् ? कामान मनोरथान् । किंविशिष्टं सत् ? पुष्टं प्रकर्षप्राप्तम् । कैः ? अङ्गैर्माहात्म्यसाधनैः । किंवि. शिष्टैः ? निःशकितत्वाद्यैः । कतिभिः ? अष्टाभिः । पुनः किंविशिष्टम् ? उत्कटमुल्वणमचिन्त्यप्रभावम् । कैः ? संवेगादिगुणैः । कतिभिः ? अष्टाभिः । किंवत् ? राज्यवत् । सम्यक्त्वं खलु निःशङ्कितत्वनिःकाशितत्वनिर्विचिकित्सत्वामूढदृष्टित्वोपगृहनस्थितीकरणवात्सल्यप्रभावनाख्यैरष्टाभिरङ्गैः पुष्टं तथा संवेगनिर्वेद निन्दागोपशमभक्तिवात्सल्यानुकम्पाख्यैरष्टभिर्गुणैरुत्कटं भवति । राज्यं तु स्वाम्यमात्यसुहृत्कोषराष्ट्रदुर्गबलाख्यैः सप्तभिरङ्गैः पुष्टं तथा संधिविग्रहयानासनद्वैधीभावसंश्रयाख्यैः षनिर्गुणैरुत्कटं भवति । अतो राज्यादस्यातिरेकः । अत एव काका राज्यवत् सम्यक्त्वं मनोरथान् पूरयति, नैवं पूरयति । किं तर्हि ? सम्यक्त्वमिव पूरयति । इति लोकोत्तरमस्य माहात्म्यमाविष्करोति ।
एवमुद्द्योतनपूर्वस्य सम्यग्दर्शनोद्यवनाद्याराधनोपायचतुष्टयस्य प्रयो. क्तुः फलमाचष्टेइत्युद्योत्त्य स्वेन सुष्ट्वेकलोलीकृत्त्याक्षोभं बिभ्रता पूर्यते दृक् । येनाभीक्ष्णं संस्क्रियोघेव बीजं तं जीवं सान्वेति जन्मान्तरेपि
अन्वेत्यनुवर्तते । कासौ ? सा दृक् सम्यक्त्वम् । कम् ? तं जीवमा. त्मानम् । क ? जन्मान्तरेऽन्यस्मिन्भवे । अपिशब्दात्तदभवे मोक्षे च । एतेन निस्तरणाख्या पञ्चम्याराधना सम्यक्त्वस्य सूत्रिता। सा हि मरणान्तप्रापणं तस्योच्यते सम्यग्दर्शनज्ञानचारित्रतपसां च प्रत्येकं पञ्चप्रकाराराधना सिद्धान्ते प्रसिद्धा । तद्यथा. उजोयणमुजवणं णिव्वहणं साहणं च णिच्छरणं ।
दंसणणाणचरित्ततवाणमाराहणा भणिया ॥ ...
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org