________________
अनगारधर्मामृते
भत्ती पूया वण्णजणणं च णासणमवण्णवादस्स।
आसादण परिहारो दसणविणओ समासेण ॥ एतब्याख्यानं विस्तरतोऽपराजिताचार्यविरचितमूलाराधनाटीकायामम. स्कृते च मूलाराधनादर्पणाख्ये तन्निबन्धे द्रष्टव्यम् ।
प्रकारान्तरेण सम्यक्त्वविनयमाह-- धन्योस्मीयमवापि येन जिनवागप्राप्तपूर्वा मया, भो विष्वगजगदेकसारमियमेवास्यै नखच्छोटिकाम् । यच्छाम्युत्सुकमुत्सहाम्यहमिहैवायेति कृत्स्नं युवन्, श्रद्धाप्रत्ययरोचनैः प्रवचनं स्पृष्ट्या च दृष्टिं भजेत् ॥ १११ ॥
भजेदाराधयेन्मुमुक्षुः । काम् ? दृष्टिम् । किं कुर्वन् ? युवन् योजयन् । किंतत् ? प्रवचनं जिनागमम् । किं विशिष्टम् ? कृत्स्नं सकलम् । कैः ? श्रद्धाप्रत्ययरोचनैः। न केवलं स्पृष्ट्या च स्पर्शनेन । कथम् ? इत्येवमनेनोल्लेखेन । तत्र श्रद्धा मनसा श्रद्धानकरणं तावत्-अस्मि भवाम्यहम्। किंविशिष्टः ? धन्यः पुण्यवान् । येन किम् ? येन मयेयं सुनिश्चितासंभवद्बाधकप्रमाणा जिनवाक सर्वमनेकान्तात्मकमिति मतमवापि प्राप्ता । किंविशिष्टा ? अप्राप्तपूर्वी आसंसारमप्राप्ता। तथा प्रत्यय-इदमेवोत्तममिति वचनम् । तथाहि । भो अहो सत्या वर्तते । कासौ ? इयमेव निराबाधा जिनवागेव । किंविशिष्टा ? विष्वग्जगदेकसारं समन्ताल्लोके एकमद्वितीयं, सारमुपादेयं वस्तु श्रेयोर्थिनाम् । तथा रोचनं नखच्छोटिकयाऽभिव्यज्यमाना रुचिः। तथाहि । यच्छामि ददाम्यहम् । काम्? नखच्छोटिकां तर्जन्यङ्गुष्ठनखघटनविघटनशब्देन सपर्याम् । कस्यै ? अस्यै जिनवाचे । तथा स्पृष्टिरनुष्ठानम् । तथाहि । उत्सहाम्यहं स्वसंवेदनप्रत्यक्षोहमुत्साहं करोमि । क? इहैवास्यामेव जिनवाचि । कदा? अद्य संप्रति । कथं कृत्वा ? उत्सुकं सोत्कण्ठम् । उक्तं च
सहहया पत्तियआ रोचयफासंतया पवयणस्य । सयलस्स जे णरा ते सम्मत्ताराहया हुंति ॥ इति विनयापादनम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org