________________
द्वितीयोऽध्यायः।
क्रोधादेरस्थिरत्वम् । अनन्तानुबन्ध्यादीनामनुद्रेक इत्यर्थः । तथा भक्तिरः भिधीयते । किम् ? पूजा। कस्य ? अर्हत्प्रभृतेर्जिनसिद्धादिपूज्यवर्गस्य । तथा वात्सल्यमभिलप्यते । किम् ? सधर्मविपदुच्छेदः स्वयूथ्यानामापदो निरसनम् । तथानुकम्पा निरूप्यते । किम् ? आर्द्रमनस्कता दयामृदुहृदयत्वम् । केषु ? अङ्गिषु प्राणिषु । किंविशिष्टेषु ? क्षुधाद्यर्दितेषु बुभुक्षातृष्णादिपीडितेषु । इति गुणापादनम् ॥ अथ विनयापादनमुच्यते
धर्माहदादितच्चैत्यश्रुतभक्त्यादिकं भजेत् ।
दृग्विशुद्धिविवृद्ध्यर्थ गुणवद्विनयं दृशः ॥ ११०॥ भजेसेवेन्मुमुक्षुः । कम् ? विनयं माहात्म्यापादनोपायम् । कस्याः ? दृशः सम्यक्त्वस्य । किमात्मकम् ? धर्मेस्यादि । किमर्थम् ? दृग्विशुद्धिविवृद्ध्यर्थम् । दृशः सम्यक्त्वस्य विशुद्धिः शङ्कादिमलनिरासेन संपादित. प्रसादो नैर्मल्यमिति यावत्। दृग्विशुद्धर्विवृद्धिर्विशेषेणोपचयो दृग्विशुद्धिविवृद्धिः । सैवार्थः प्रयोजनं यत्र भजनकर्मणि तदेवम् । किंवत् ? गुणवद् । यथोपगूहनादिगुणकदम्बकं दर्शनविशुद्धिं विवर्धयितुं सेवेत तथा धर्मादिविषयभक्त्यादिलक्षितलक्षणं दृग्विनयमपीत्यर्थः । तत्र धर्मो रत्नत्रयम् । अहदादयोऽह सिद्धाचार्योपाध्यायसाधवः । तच्चैत्यान्यर्हदादिप्रतिबिम्बानि । श्रुतमविस्पष्टतर्कणलक्षणं भावश्रुतमङ्गप्रविष्टाङ्गबाह्य विकल्पं शब्दात्मक द्रव्यश्रुतं लिप्यक्षरात्मकं वा । भक्तिरादिर्यस्य पूजादेस्तद्भक्त्यादिक पञ्चकम् । धर्मश्चाहदादयश्च तच्चैत्यानि च श्रुतं च धर्मार्हदादितच्चैत्यश्रुतानि । तेषु भक्त्यादिकं तजक्त्यादिकम् । तत्र भक्तिर्भावविशुद्धियुक्तोनुरागः । पूजा वेधा द्रव्यभावभेदात् । तत्र द्रव्यपूजाऽहंदादीनुद्दिश्य गन्धाक्षतादिदानम् । भावपूजा कायेनाभ्युत्थानप्रदक्षिणीकरणप्रणामादिका वाचा गुणस्तवनं, मनसा गुणानुस्मरणं, वर्णजननं, विदुषां परिषदि यशोजननं गुणकीर्तनमिति यावत् । अवर्णवादनाशनमसद्भूतदोषोदावननिराकरणमाऽऽसादनपरिहारोऽवज्ञावर्जनम् । उक्तं च
अरहंतसिद्धचेदियसुदे य धम्मे य साहुवग्गे य। आयरियउवज्झायसु पवयणे दंसणे चावि ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org