________________
१६४
अनगारधर्मामृते
आरभेतोपक्रमेत मुमुक्षुः । किम् ? प्रभावमचिन्त्यशक्तिविशेषम् ? कस्य ? स्वस्यात्मनः । किंविशिष्टम् ? अद्भुतमाश्चर्यम् । व? अभितः समन्तात्सर्वत्र । किं कुर्वन् ? अनुबध्नन्ननुवर्तयन् । किं तत् ? रत्नत्रयम् । किंविशिष्टम् ? परमधाम प्रकृष्टतेजः । कथम् ? सदा सर्वदा । तथोद्वरेत् प्रकाशयेन्मुमुक्षुः । काम् ? जिनमतश्रियं जिनशासनमाहात्म्यम् ? कैः ? विद्याद्यवदानैः । किंवत् ? वज्रादिवत् । वज्रकुमारादिभिस्तुल्यम् । विद्या आकाशगमनादिकरी साधितसिद्धा, पठितसिद्धो मन्त्रः, स्याद्वादज्ञानं च। तपः इच्छानिरोधः यजनं जिनयज्ञो नित्यमहादिः । दानमनुग्रहार्थं स्वस्थातिसर्गः। विद्या च तपश्च यजनं च दानं च तानि, मुखे आदी येषां सिद्धमन्नदिव्यरत्नसिद्धौषधिप्रयोगाणां तानि विद्यादीन्यवदानान्यद्भुतक. माणि, तैः । मत्रप्रभृत्यवदानेष्वप्युदाहरणान्यागमतः प्रतिपत्तव्यानि । प्रकारान्तरेण गुणापादनमाहदेवादिष्वनुरागिता भववपुर्नोगेषु नीरागता, दुर्वृत्तेनुशयः स्वदुष्कृतकथा सूरेः क्रुधाद्यस्थितिः। पूजाहेत्प्रभृतेः सधर्मविपदुच्छेदः क्षुधाद्यर्दिते,ध्वनिष्वार्द्रमनस्कताष्ट चिनुयुः संवेगपूर्वा दृशम् ॥१०९॥ चिनुयुर्वर्द्धयेयुः । के ? संवेगपूर्वाः संवेगनिर्वेदादयः । कति ? अष्ट अष्टौ । काम् ? दृशं शङ्काद्यतीचाररहितं सम्यक्त्वम् । ते यथाक्रमं यथा
संवेओ णिव्वेओ जिंदा गरुहा य उवसमो भत्ती।
वच्छल्लं अणुकंपा गुणा हु सम्मत्तजुत्तस्स ॥ तानेव यथोद्देशं निर्देशयति । तथाहि । संवेगो निगद्यते । किम् ? अनुरागिता ख्यात्यादिनिरपेक्षोनुरागः । केषु ? देवादिषु देवे गुरौ संघे धर्मे धर्मफलदर्शने च । तथा निर्वेदो निवेद्यते । किम् ? नीरागता वैराग्यम् । केषु ? भववपु गेषु संसारशरीरस्रग्वनितादि विषयेषु । तथा निन्दा निर्देश्यते । किम् ? अनुशयः पश्चात्तापः । व? दुर्वृत्ते दुष्टेनुष्ठिते । तथा गर्दा व्याहियते । किम् ? स्वदुष्कृतकथा आत्मना दुष्टानुष्ठितस्य कथनम्। कस्याग्रे ? सूरेराचार्यस्य । तथोपशमोनुशिष्यते । किम् ? क्रुधाद्यस्थिति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org