SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽध्यायः। सामर्थ्य, तेन । बलवता देवेन प्रमादेन चेत्यर्थः। तथा स्यान्मुमुक्षुः । किंविशिष्टः ? महाहः पूजायोग्यः । केषाम् ? महतामिन्द्रादीनाम् । कथम् ? अलं पर्याप्तम् । किंवत् ? वारिषेणवत् । वारिषेणो नाम श्रेणिकमहाराजपुत्रो यथा। किं कुर्वन् ? द्रढयन् सन्मार्गे स्थिरीकुर्वन् । कम् ? परमपि पुष्पडालवत् साधर्मिकमपि । किं विशिष्टम् ? तत्प्रच्युतं ततः सुपथः प्रच्योतुमारब्धम् । सन्मार्गप्रच्यवनोन्मुखमित्यर्थः । किंवत् ? बहुस्वमात्मानमिव । ईषदसिद्धः स्व इति विगृह्य "वा सुपो बहुपः प्राक्" इत्यनेन बहुप्रत्ययः पूर्वो विधीयते । अन्तर्बहिर्वात्सल्यकरणे प्रयुङ्क्ते धेनुः स्ववत्स इव रागरसादभीक्ष्णं, दृष्टिं क्षिपेन मनसापि सहेत्क्षतिं च । धर्मे सधर्मसु सुधीः कुशलाय बद्ध, प्रेमानुबन्धमथ विष्णुवदुत्सहेत ॥ १०७ ॥ क्षिपेद् व्यापारयेन्मुमुक्षुः । काम् ? दृष्टिमन्तर्मतिम् । क्व ? धर्मे । कथम् ? अभीक्षणमनारतम् । कस्मात् ? रागरसात् प्रीत्यतिरेकात् । केव ? धेनुरिव यथाऽचिरप्रसूता गौः स्ववत्से निजतर्णके रागरसादभीक्ष्णं दृष्टिं चक्षुर्व्यापारयत्येवं मुमुक्षुरपि दृष्टिं व्यापारयेदित्यर्थः। तथा तद्वदेवासौ मनसापि क्रियमाणां च धर्मे क्षतिमुपद्रवं न सहेत क्षमेत । तथो. त्सहेत उद्योगं कुर्यात्सुधीः । किंवत् ? विष्णुवत् । विष्णु मर्षिर्यथा । कस्मै ? कुशलाय कल्याणं कर्तुम् । केषु ? सधर्मसु साधर्मिकेषु । कथं कृत्वा ? बद्धप्रेमानुबन्धम् । बद्धः कृतः प्रेम्णः स्नेहस्यानुबन्धोनुवृत्तियत्रोत्सहनकर्मणि तत् । अथश्वार्थे । अन्तरङ्गबहिरङ्गप्रभावनामाहरत्नत्रयं परमधाम सदानुवनन् , खस्य प्रभावमभितोद्भुतमारभेत । विद्यातपोयजनदानमुखावदान,वैज्रादिवजिनमतश्रियमुद्धरेच्च ॥ १०८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy