________________
अनगारधर्मामृते
धर्म स्वबन्धुमभिभूष्णु कषायरक्षः, क्षेप्तुं क्षमादिपरमास्त्रपरः सदा स्यात् । धर्मोपबृंहणधियाऽबलवालिशात्म,
यथ्यात्ययं स्थगयितुं च जिनेन्द्रभक्तः ॥ १०५ ॥ सदा स्यान्मुमुक्षुः। किंविशिष्टः ? क्षमादिपरमास्त्रपरः क्षान्तिमार्दवादिदिव्यायुधप्रधानः । किं कर्तुम् ? क्षेतुं निग्रहीतुम् । किं तत् ? कषायरक्षः। कषायः क्रोधादिवर्गो रक्षो राक्षस इव घोरदुर्निवारत्वात् । किंविशिष्टम् ? अभिभूष्णु ताच्छील्येन व्याहतशक्तिं कुर्वाणम् । कम् ? धर्म सम्यक्त्वरूपं रत्नत्रयरूपं वा। किंविशिष्टम् ? स्वबन्धुमात्मनो बन्धुवदत्रामुत्र चोपकारकत्वात् । तथा नित्यं मुमुक्षुः स्यात् । किंविशिष्टः ? जिनेन्द्रभक्तः। जिनेन्द्रभक्ताख्यश्रेष्ठिवच्चेष्टेतेत्यर्थः । किं कर्तुम् ? स्थगयितं छादयितुम् । कम् ? अबलवालिशात्मयूथ्यात्ययम् । अबला अशक्ताः, बालिशा अज्ञाः, आत्मनः स्वस्य संबन्धिनि यूथे सधर्मवर्गे भवा आत्मयूथ्याः। अबलाश्च बालिशाश्चावलबालिशाः । ते च ते आत्मयूथ्याश्च । तेषामत्ययो दोषस्तम् । कया ? धर्मोपबृंहणधिया धर्मस्योपबृंहणमुपचयापादनम् तत्र धीस्तया । धमों मया प्रतिवर्घनीय इति चिन्तयतेत्यर्थः । स्वपरयोः स्थितीकरणाचरणमाह
दैवप्रमादवशतः सुपथश्वलन्तं, खं धारयेल्लघु विवेकसुहरलेन । तत्प्रच्युतं परमपि द्रढयन् बहुखं,
स्थाद्वारिषेणवदलं महतां महाहः ॥१०६ ॥ धारयेत्सन्मार्गे स्थिरीकुर्यान्मुमुक्षुः । कम् ? स्वमात्मानम् । कथम् ? लघु शीघ्रम् । केन ? विवेकसुहृद्घलेन युक्तायुक्तविचारमित्रावष्टम्भेन । किं कुर्वन्तम् ? चलन्तं प्रच्योतुमुन्मुखीभवन्तम् । कस्मात् ? सुपथो व्यस्तात्समस्ताद्वा रत्नत्रयात् । केन? दैवप्रमादवशतः । दैवं पुराकृतं मार्गप्रतिबन्धककर्म । प्रमादोऽनवधानम् । दैवं च प्रमादश्च तयोर्वशः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org