________________
द्वितीयोऽध्यायः।
अमूढा पडनायतनत्यागादनभिभूता दृष्टिः सम्यक्त्व यस्यासावमूढदृष्टिः । एतेन षडनायतनवर्जनाद्वारेणामूढदृष्टित्वगुणोपि पञ्चमः स्मृतिप्रसिद्धः संग्रहीतः। सिद्धान्ते तु चत्वार एव दृग्विशुद्धिविवृद्ध्यर्थी गुणाः श्रूयन्ते। तथा चाराधनाशास्त्रम्
उवगृहणठिदिकरणं वच्छल्लपहावणा गुणा भणिया।
सम्मत्तविसुद्धीए उवगृहणगारया चउरो॥ एतद्विपर्ययाश्वान्येऽनुपगृहनादयश्चत्वारो दर्शनदोषाः संभवन्ति । अत एव विस्तररुचीन् प्रति पञ्चविंशतिसम्यक्त्वदोषान् व्याचक्षते । तथा चोक्तम्
मूढत्रयं मदाश्चाष्टौ तथानायतनानि षट् ।
अष्टौ शङ्कादयश्चेति दृग्दोषाः पञ्चविंशतिः॥ अनुपगृहनादिकारिणः सम्यक्त्ववैरिण इत्याचष्टेयो दोषमुद्भावयति स्वयूथ्ये यः प्रत्यवस्थापयतीममित्ये । न योनुगृह्णाति न दीनमेनं मार्ग च यः प्लोषति दृग्द्विषस्ते१०४ __ भवन्ति । के ? ते अनुपगृहनास्थितीकरणावात्सल्याप्रभावनाकरिश्चस्वारः क्रमेणोक्ताः। किविशिष्टाः ? दृग्द्विषः । दृशं द्विषन्ति । सम्यक्त्वविराधका इत्यर्थः । कस्क इत्याह-यस्तावदुद्भावयति प्रकाशयति । कम् ? दोषं सन्तमसन्तं वा सम्यक्त्वाद्यतीचारम् । क्व ? स्वयूथ्ये सधमणि । तथा यो न प्रत्यवस्थापयति पूर्ववत्पुनर्न व्यवस्थापयति । कम् ? इमं स्वयूथ्यं दर्शनादेः प्रच्यवन्तम् । क ? इत्ये गन्तव्ये पथीत्यर्थः । तथा यो नानुगृह्णाति नाहितसामर्थ्य करोति । कम् ? एनं स्वयूथ्यम् । किंविशिष्टं सन्तम् ? दीनं प्रक्षीणपुरुषार्थसाधनसामर्थ्यम् । तथा यःप्लोषति दहति माहात्म्याशयति । निष्प्रभावतया लोके प्रकाशयतीत्यर्थः । कम् ? मार्गमभ्युदयनिःश्रेयसप्रायुपायम् । इति दोषोज्झनमुक्तम् ।
इतो गुणापादनमुच्यते । तत्र तावदुपगृहनगुणमन्तर्बहिर्वृत्तिरूपेण द्विविधमप्यवश्यकर्तव्यतयोपदिशति
१ उपगूहनस्थितिकरणे वात्सल्यप्रभावने गुणा भणिताः। सम्यक्त्वविशुद्धयामुपगूहनकारकाश्चत्वारः ॥ अन० ध० ११
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org