________________
१६०
अनगारधामृते
. राजति दीप्यते सम्यक्त्वाराधकत्वेन स्फुरति । कोसौ ? अमूढदृष्टिः । क ? इह लोके । किंवत् ? रेवतीवद्रेवत्यास्तुल्यम् । यः किम् ? यः प्रचरद्विचारः सन्न द्वेष्टि द्वेषं न करोति न च रज्यति नापि प्रीति करोति । केषु ? देवलिङ्गिसमयेषु । देवाश्च लिङ्गिनश्व समयाश्च शास्त्राणि तेषु । किंविशिष्टेषु ? तमोमयेषु अज्ञानरूपेष्वज्ञानबहुलेषु वा । न केवलं तेषु लोकेपि व्यवहर्तृजने । किंविशिष्टे ? गतानुगतिकेपि अविचारप्रमुखेप्यनुगतिरनुवृत्तिर्यस्य स एवम् । दृष्टानुसारिणीत्यर्थः। पुनः किंविशिष्टे अपथैकपान्थे केवलोन्मार्गनित्यचारिणि अपथे एकस्मिन् पान्थः पन्थानं नित्यं यातीति पान्थः “पन्थोणो नित्यम्" इति तद्धितोयं । विचारः प्रत्यक्षानुमानागमैर्यथावस्थितवस्तुव्यवस्थापनहेतुः क्षोदः । प्रचरन् प्रकर्षण देशकालसकलपुरुषपरिषदपेक्षबाधकामावलक्षणेन चरन्प्रवर्तमानो विचारो यस्य स तथोक्तः ।
ननु च कथमेतद् यावता लोकदेवतापाषण्डिभेदात्रिधैव मूढमनुश्रूयते । तथा च स्वामिसूक्तानि
आपगासागरस्नानमुच्चयः सिकताश्मनाम् । गिरिपातोग्निपातश्च लोकमूढं निगद्यते ॥ वरोपलिप्सयाशावान् रागद्वेषमलीमसाः। देवता यदुपासीत देवतामूढमुच्यते ॥ सग्रन्थारम्भहिंसानां संसारावर्तवर्तिनाम् । पाषण्डिनां पुरस्कारो ज्ञेयं पाषण्डिमोहनम् ॥ नैष दोषः, कुदेवे कुलिङ्गिानि वा कदागमस्थान्तर्भावात् । कथमन्यथेदं स्वामिसूक्तमुपपद्येत,
भयाशास्नेहलोभाञ्च कुदेवागमलिङ्गिनाम् । प्रणामं विनयं चैव न कुर्युः शुद्धदृष्टयः॥ एतदनुसारेणैव ठक्कुरोपीदमपाठीत्
लोके शास्त्राभासे समयाभासे च देवताभासे। नित्यमपि तत्त्वरुचिना कर्तव्यममूढदृष्टित्वम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org