________________
द्वितीयोऽध्यायः।
१५९
पीडा । किंविशिष्टम् ? अनन्तम् । क्व ? प्राग्वधे रागद्वेषादिभिरात्मनः परस्य च घाते । कथम् ? ध्रुवं निश्चितम् । उदग्वधेपुनर्विषशस्त्रादिभिः स्वपरयो_ते सति निरवधि दुःखं भाज्यं विकल्पनी. यम् । अयमभिप्रायो-विषादिभिर्हन्यमानोपि जीवो यदि पञ्चनमस्कारमनाः स्यात्तदा नानन्तदुःखभाग्भवत्यन्यथा भवत्येवेति । हिंसाहिंसयोर्माहात्म्यमाह
हीनोपि निष्ठया निष्ठागरिष्ठः स्यादहिंसया। हिंसया श्रेष्ठनिष्ठोपि श्वपचादपि हीयते ॥ १०१॥ स्यात्पुरुषः । किंविशिष्टः ? निष्ठागरिष्ठो व्रताउनुष्ठानमहिष्ठः । कया ? अहिंसया द्रव्यभावहिंसानिवृत्त्या। किंविशिष्टोपि ? हीनोल्पो रितो वा । कया? निष्ठया । व्रताउनुष्ठानेन । अपिर्विस्मये । हिंसया पुनः पुमान हीयते निकृष्टो भवति । कस्मात् ? श्वपचादपि चाण्डा. लादपि । किंविशिष्टोपि ? श्रेष्ठनिष्ठोपि ।
मिथ्याचारित्रपरैः सह सांगत्यं प्रत्याख्यातिकेचित्सुखं दुःखनिवृत्तिमन्ये प्रकर्तुकामाः करणीगुरूणाम् । कृत्त्वा प्रमाणं गिरमाचरन्तो हिंसामहिंसारसिकैरपास्याः १०२ ___ अपास्या दूरतस्त्याज्याः । के ? केचित् सुखं शर्म प्रकर्तुकामाः । स्वस्य स्खेषां वा प्रकर्षणोत्पादयितुमिच्छन्तः । तथान्ये दुःख निवृत्ति प्रकर्तुकामाः। किं कुर्वन्तः ? हिंसामाचरन्तः। किं कृत्वा ? कृत्वा । काम् ? गिरं वाचम् । किंविशिष्टाम् ? प्रमाणमविसंवादिनीम् । केषाम् ! करणीगुरुणां मिथ्याचार्याणाम् । करण्योपाधियुक्त्या गुरव इति विग्रहः । कैरपास्याः ? अहिंसारसिकैरहिंसायामासक्तैः । त्रिमूढापोढत्वं सम्यग्दृष्टेभूषणत्वेनोपदिशति
यो देवलिङ्गिसमयेषु तमोमयेषु, लोके गतानुगतिकेप्यपथैकपान्थे । न द्वेष्टि रज्यति न च प्रचरद्विचारः, सोऽमूढदृष्टिरिह राजति रेवतीवत् ॥ १०३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org