________________
१५८
अनागारधर्मामृते
जातु कदाचित्सदृष्टिर्न व्रजेन्न गच्छेत् । कम् ? सङ्गं संसर्गम् । कैः सह ? भुजङ्गैर्विटैः सपैं। किंविशिष्टैः ? आचार्यव्यञ्जनैः । आचार्याः सदाचारचारिणो व्यञ्जनं वेषो स्वरूपव्यवधायको येषाम् । पुनः किं विशिष्टैः ? कुहेत्वित्यादि। कुत्सिता प्रमाणबाधिता हेतवो युक्तयो, नया: पक्षा, दृष्टान्ता उदाहरणानि गरलानि विषाणीव मोहमूर्छादिहेतुत्वात् । तेषा. मुद्गार उत्सर्गः । तेन दारुणा घोराः ॥ भूयोपि भङ्गयन्तरेणाह
भारयित्वा पटीयांसमप्यज्ञानविषेण ये । विचेष्टयन्ति संचक्ष्यास्ते क्षुद्राः क्षुद्रमंत्रिवत् ॥९९ ।। संचक्ष्या वर्जनीयाः सम्यक्त्वाराधकैः । के ? ते क्षुद्रा मिथ्योपदेष्टारो दुर्जनाः। किंवत् ? क्षुद्रमन्त्रिवत्-दुष्टगारुडिका यथा। ये किम् ? ये विचेष्टयन्ति विरुद्धं वर्तयन्ति । कम् ? पटीयांसमपि तत्ववेत्तारमपि, किं पुनरतत्त्वविदमतत्त्वज्ञं वेत्यपि शब्दार्थः । पक्षे अदष्टपूर्व, किं पुनर्दष्टपूर्व शङ्कितदंशं वेत्यपि शब्दार्थः । किं कृत्वा ? भारयित्वा विह्वलीकृत्य मोहवशं नीत्वा । केन ? अज्ञानविषेण मिथ्याज्ञानगरलेन । मिथ्याचारित्राख्यमनायतनं प्रतिक्षिपति
रागाद्यैर्वा विषाद्यैर्वा न हन्यादात्मवत्परम् ।
ध्रुवं हि प्राग्वधेऽनन्तं दुःखं भाज्यमुदखधे ॥१०॥ न हन्यान्न हिंस्यान्मिथ्याचारित्राख्यमनायतनं जिहासुः सदृष्टिः । कम् ? परं परात्मानम् । किंवत् ? आत्मवत् आत्मानं यथा। कैः ? रागाद्यैर्वा रागद्वेषादिभिर्मोहोदयजन्यविकारैः दृष्टश्रुतानुभूतभोगाकाङ्क्षारूपनिदानबन्धादिसमस्तरागादिदोषैरित्यर्थः । न केवलं तैर्विषाद्यैर्वा विषशस्त्रजलाग्निप्रवेशादिभिः । वा शब्दौ परस्परसमुच्चये । इदमत्र तात्पर्यं-रागादिपरिणत्या स्वपरयोर्विशुद्धिपरिणामलक्षणं साम्यमुपन्नतो मिथ्याचारित्र क्षणानायतनसेवया सम्यक्त्वं मलिनी स्यात् । सैषा भाव. मिथ्याचारित्रसेवा । विषादिमिस्तु स्वं परं वा नतो द्रव्यमिथ्याचारित्रसेवा स्यात् । एतदव समर्थयते-हि यस्माद्भवति । किं तत् ? दुःखं स्वपरयोः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org