________________
द्वितीयोऽध्यायः।
१५७
अन्ये पुनद्रव्यजिनलिंगधारिणो मुनिमानिनोऽवशिनोऽजितेन्द्रियाः संतस्तां तथाभूतामाहतीं मुद्रां बहिः शरीरे न मनसि श्रिताः प्रपन्ना आवि. शान्ति संक्रामंति विचेष्टयंतीत्यर्थः । कम् ? लोकं धर्मकामं जनम् । किंवत् ? भूतवद् ग्रहैस्तुल्यम् । अपरे पुनद्रव्यजिन लिङ्गधारिणो मठपतयो म्लेच्छन्ति म्लेच्छा इवाचरन्ति । लोकशास्त्रविरुद्धमाचारं चर• न्तीत्यर्थः । कया ? तच्छायया आहेतगतप्रतिरूपेण । तथा च पठन्ति
पण्डितैभ्रष्टचारित्रैठरैश्च तपोधनैः। शासन जिनचन्द्रस्य निर्मलं मलिनीकृतम् । भोः सम्यक्त्वाराधक त्यज मुञ्च त्वम् । कम् ? त्रिधा परिचयं मनसानुमोदनं वाचा कीर्तनं कायेन संसर्ग च । कैः सह ? तकैः कुत्सितैस्तै. स्त्रितयैः । किंविशिष्टैः ? पुंदेहमोहैः पुरुषाकारमिथ्यात्वैः । तदुक्तम्
कापथे पथि दुःखानां कापथस्थेप्यसंमतिः।
असंपृक्तिरनुत्कीर्तिरमूढा दृष्टिरुच्यते ॥ बाह्या अप्याहुःपाखण्डिनो विकर्मस्थान् वैडालवतिकान् शठान् । हेतुकान् बकवृत्तींश्च वाङ्मात्रेणापि नार्चयेत् ॥ मिथ्याज्ञानाख्यमनायतनं त्याजयतिविद्वानविद्याशाकिन्याः क्रूरं रोद्धमुपप्लवम् ।
निरन्ध्यादपराध्यन्ती प्रज्ञां सर्वत्र सर्वदा ॥ ९७ ॥ निरुन्ध्यानिवारयेत् । कोसौ ? विद्वान् समीक्ष्यकारी । काम् ? प्रज्ञा त्रिकालविषयार्थपरिच्छेदिकां बुद्धिम् । किं कुर्वतीम् ? अपराध्यन्तीं विभ्रमं गच्छन्तीम् । क कदा ? सर्वत्र सर्वदा । किं कर्तुम् ? रोढुं प्रतिबद्धुम् । कम् ? उपप्लवमुपसर्गम् । किंविशिष्टम् ? क्रूरं कर्कशम् । कस्याः ? अविद्याशाकिन्याः। मिथ्याज्ञानिभिः संपर्कमपाकरोति
कुहेतुनयदृष्टान्तगरलोद्गारदारुणैः। आचार्यव्यञ्जनैः सङ्गं भुजङ्गैर्जातु न व्रजेत् ॥ ९८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org