________________
१५६
अनगारधर्मामृते
क्षबुद्धयः । किं कर्तुम् ? खण्डयितुं स्वरूपेण प्रभावेन वा विकलीकर्तुम् । किं तत् ? सद्दृष्टिसम्राट्पदं सम्यक्त्वसाम्राज्यम् । के अमी ? इत्यत्राह- इमे त्रयस्तावत् । ये किम् ? ये न रोचन्ते न श्रद्दधते । किं तत् ? एकशः एकैकम् । केषु ? सम्यक्त्वादिषु मध्ये | कथम् ? तथा सिद्धिसाधनतया । किंविशिष्टेषु ? सिद्धेषु आगमनिर्णीतेषु । कया ? सिद्धिसाधनतया मोक्षमार्गत्वेन । कतिषु ? त्रिष्वेव समुदितेषु न व्यस्तेषु । तथा ते त्रयः । ये किम् ? ये न रोचन्ते । किं तद् ? द्विशो द्वे द्वे सम्यक्त्वादिषु मध्ये सिद्धिसाधनतया । तथा सोपि सप्तमो मिथ्यादृक् स्यात् । यः किम् ? यस्त्रीण्यपि सम्यक्त्वादीनि सिद्धिसाधनतया न रोचते । तथाहि । कश्चित्सम्यक्त्वज्ञाने मोक्षमार्गं मन्यते, न चारित्रम् | अन्यः सम्यक्त्व चारित्रे न ज्ञानम् । अन्यतरो ज्ञानचारित्रे, न सम्यक्त्वम् । एवमुत्तरत्रापि चिन्त्यम् । उक्तं च
एकैकं न त्रयो द्वे द्वे रोचन्ते न परे त्रयः । एकत्रीणीति जायन्ते सप्ताप्येते कुदर्शनाः ॥ अपरैरपि मिथ्यादृष्टिभिः सह संसर्ग प्रतिषेधयतिमुद्रां सांव्यवहारिकीं त्रिजगतीवन्द्यामपोद्यार्हती, वामां केचिदहंयवो व्यवहरन्त्यन्ये बहिस्तां श्रिताः । लोकं भूतवदाविशन्त्यवशिनस्तच्छायया चापरे, म्लेच्छन्तीह तकैस्त्रिधा परिचयं पुंदेहमोहैस्त्यज ॥ ९६ ॥
इह क्षेत्रे संप्रति काले केचित्तापसादयो व्यवहरन्ति प्रवृत्तिनिवृत्तिविषयां कुर्वन्ति । काम् ? मुद्रां वृतचिह्नम् । किंविशिष्टाम् ? वामां विपरीतां जटाधारणभस्मोद्धूलनादिरूपाम् । किंविशिष्टाः सन्तः अहंयवोsहंकारिणः । किं कृत्वा ? अपोद्य अपवादविषयां कृत्वा । निषिद्ध्येत्यर्थः । काम् ? मुद्राम् । किंविशिष्टाम् ? आर्हत जैनीमाचेलक्यादिलिङ्गलक्षणाम् । पुनः किंविशिष्टाम् ? त्रिजगतीवन्द्यां जगत्त्रयनमस्याम् । पुनरपि किंविशिष्टाम् ? सांव्यवहारिक समीचीनप्रवृत्तिनिवृत्तिप्रयोजनाम् । पक्षे, टंकादिना काकृतिं समीचीनामपोद्य मिथ्यारूपां क्षुद्रा व्यवहरन्तीति व्याख्येयं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org