________________
द्वितीयोऽध्यायः।
१५५
पूजामदकर्तुर्दोषं प्रदर्शयति
स्खे वर्गे सकले प्रमाणमहमित्येतत्कियद्यावता, पौरा जानपदाश्च संत्यपि मम श्वासेन सर्वे सदा । यत्र काप्युत यामि तत्र सपुरस्कारां लभे सक्रिया,
मित्यर्चामदमूर्णनाभवदधस्तंतुं वितन्वन् पतेत् ॥ ९४॥ पतेत् अश्येत् जीवः । क ? अधः हीनपदे। किं कुर्वन् ? वितन्वन् दी/कुर्वन् । कं ? अर्चामदं पूजाहवारं । किंवत् ? अर्णनाभवत् , यथा ऊर्णनाभः कौलिकस्तंतुं लालास्वरूपं वितन्वन्नधोऽधरदेशे पतेत् । कथं वितन्वन् ? इति । किमिति ? कियत् किं परिमाणं वर्तते । किं किमेतत् । कथम् ? इति वर्तेह। किंविशिष्टः ? प्रमाणम् अविसंवादी सर्वत्र प्रतिष्ठावानित्यर्थः। क ? वर्ग सजातीयसमूहे। किंविशिष्टे ? स्वे निजे । पुनः किंविशिष्टे ? सकले सर्वत्र । कुत इत्याह-यावता येन कारणेन सर्वे पौरा नागरा, जानपदा अपि देशवास्तव्यलोकाश्च श्वसन्ति प्राणन्ति मदेकायत्तास्तिष्ठन्तीत्यर्थः । केन ? श्वासेन । कस्य ? मम । कदा? सदा। उत अथवा यत्र क्वापि यस्मिन्कस्मिंश्चित्स्थाने यामि गच्छाम्यहं तत्र सर्वत्र लमे प्रामोम्यहम् । काम् ? सक्रियां सत्कारम् । किंविशिष्टाम् ? सपुरस्कार पुरस्कारसहिताम् । सर्वत्र श्रेष्ठेषु कर्मस्वग्रे कृत्वा पूज्योहमित्यर्थः॥
एवं प्रसङ्गायाः साधर्मिकान् प्रति जात्यायष्टमदैः सह मिथ्यात्वाख्यमनायतनं त्याज्यतया प्रकाश्य साम्प्रतं तद्वतः सप्त त्याज्यतया प्रकाशयति
सम्यक्त्वादिषु सिद्धिसाधनतया त्रिष्वेव सिद्धेषु ये, रोचन्ते न तथैकशस्त्रय इमे ये च द्विशस्ते त्रयः। यश्च त्रीण्यपि सोप्यमी शुभदृशा सप्तापि मिथ्यादृश,स्त्याज्याः खण्डयितुं प्रचण्डमतयः सदृष्टिसम्राट्पदम्९५ त्याज्या दूरीकार्याः । के ? अमी सप्तापि मिथ्याहशो मिथ्यादृष्टयः। केन ? शुभदृशा सम्यग्दृष्टिना। किंविशिष्टाः यतः ? प्रचण्डमतयोऽद
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org