________________
१५४
अनगारधर्मामृतेmwwwww उत्प्लावितः उर्व प्रेरितः । कस्मात् ? हृत्कोडात् हृदयमध्यात्। काभिः ? आस्थानकथाप्रसंगलहरीहेलामिः, कथाप्रसंगा वार्ता लहयो महोर्मयः हेला अनियता प्रवृत्तिः । आस्थाने सभायां कथाप्रसंगास्ते लहर्य इव दूरव्यापित्वात् तासां हेलाः। कथं ? इति एवं किलैवं श्रूयते । आस्थत् निराकृतवान् । कोसौ ? पार्थः अर्जुनः । कान् ? द्विषः कौरवान् । किंविशिष्टान् ? अभिचारितान् उपतप्तान् प्रतिबद्धशक्तीन् । कया? हरिमायया विष्णुवंचनया । कयेच ? शाकिन्या शाकिन्येव ईक्षणिकया यथा । लुतोपमेयं । स तथाभूतः पार्थों वरं भवतु । किं वीरोदाहरणं अर्जुनेन सदृशा इमे वीरा इत्यस्तु न पुना रामो दाशरथिस्तदस्तु । कुतः ? स्वयं कूटकृत् । वालिवधादिप्रस्तावे आत्मना कूटं कृतवान् यतः ॥ तपोमदस्य दुर्जयत्वं व्यनक्ति
कारिक्षयकारणं तप इति ज्ञात्वा तपस्तप्यते, कोप्येतर्हि यदीह तर्हि विषयाकांक्षा पुरो धावति । अप्येकं दिनमीदृशस्य तपसो जानीत यस्तत्पद,
द्वंद्वं मूर्ध्नि वहेयमित्यपि दृशं मश्नाति मोहासुरः ॥ ९३ मनाति कदर्थयति । कोसौ ? मोहासुरः अज्ञानदैत्यः । कां ? अपि दृशं न परं चारित्रं यावता सम्यक्त्वमपीत्यर्थः । कथं ? इति इहास्मिन् क्षेत्रे एतर्हि एतस्मिन् काले कोपि कश्चित् यदि तप्यतेऽर्जयति । किं तत् ? तपः। किं कृत्वा ? ज्ञात्वा निश्चित्य । कथं ? भवति । किं तत् ? तपः। किंविशिष्टं ? कर्मारिक्षयकारणं मोहादिशत्रुनिवर्हणमिति । तर्हि तदा पुरो धावति अग्रे वेगेन गच्छति । कासौ ? विषयाकांक्षा। लाभाद्यपेक्षया तपः क्षिप्रं दृष्यते इत्यर्थः । वहेयं धारयेयमहं । किंतत् ? तत्पदद्वंद्वं तस्य पादद्वयं । क ? मूर्ध्नि । यः किं ? यो जानीत । कस्य ? तपसः। किंविशिष्टस्य ? ईदृशस्य, मया निरीहतया विधीय. मानेन तपसा सदृशस्य । कियंतं कालं ? अप्येक दिनं एकमप्यहरीदृशं तपश्चरितुं प्रवर्तेत इत्यर्थः । तपसः इत्यत्र "ज्ञास्वार्थकरण" इत्यनेन षष्ठी॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org