________________
द्वितीयोऽध्यायः।
१५३
किंविशिष्टम् ? मदुपक्रम मया प्रथममारब्धम् । मत्कृतं शिल्पं दृष्ट्वान्यैः कृतमित्यर्थः । ममोपक्रमो मदुपक्रमः। "उपज्ञोपक्रमं तदाधुक्तौ" इति समासे नपुंसकत्वम् । तथा शासति परेभ्यः प्रतिपादयन्ति । के ? जडधियो मंदमतयोपि । किं तत् ? विश्वं चराचरं जगत् । केन ? प्रसादेनानुग्रहेण । कस्य ? मे मम । कथं ? आशु, शीघ्रं मदनुग्रहादनन्तरमेव । लोकस्थितिव्युत्पादने अहमेव गुरुरित्यर्थः । तथा वर्तेहं । किं ? दृक् दृष्टिः। केषां ? नृणां मनुष्याणां । केषु ? लोकवेदसमयाचारेषु । लोकश्च वेदश्च समयाश्च नानालिंगिमतानि लोकवेदसमयास्तेषामाचारा विहिताचरणानि । लोकाद्याचारान् स्फुटं दर्शयितुं ममैव प्रावीण्यमित्यर्थः । तथा अहमिव मया तुल्यं कः कर्षति आक्षिपति स्वाधीनं करोतीत्यर्थः । किं तत् ? मनः। केषां ? राज्ञां। कैः ? अवधानकुतुकामोदैः। कस्यां ? सदस्यां सभायां न कश्चित् कर्षतीत्यर्थः। अवधानान्येव कुतुकानि कौतुकानि तत्कृता आमोदा आनन्दा, अवधानकुतुकान्येव वा आमोदाः परिमला राजादिलोकानां मनोनुरंजकत्वात् । अवधानानि युगपत्पाठगीतनृत्यादिविषयावधारणानि । यल्लोके
व्यावृत्तं प्रकृतं वियद्धि लिखितं पृष्टार्पितं व्याकृतं, मात्राशेषममात्रमंकशवलं तत्सर्वतोभद्रवत् । यः शक्तो युगपद्रहीतुमखिलं काव्ये च संचारयन् वाचं सूक्तिसहस्रभंगिसुभगां गृह्णातु पत्रं समे ॥" कुलीनस्य बलमददुर्लक्षतां लक्षयतिशाकिन्या हरिमाययाभिचरितान् पार्थः किलास्थविषो, वीरोदाहरणं वरं स न पुना रामः स्वयं कूटकृत् । इत्यास्थानकथाप्रसंगलहरीहेलाभिरुत्प्लावितो, हत्क्रोडाल्लयमेति दो परिमलः कस्यापि जिह्वांचले ॥९२॥ एति गच्छति । कोसौ ? दो परिमलः, दोषोबर्बाह्वोः परिमलो लक्षणया वीर्य प्रशस्यतमत्वात् । कं ? लयमलक्षत्वं । क ? जिह्वांचले जिह्वाग्रे अवाच्यो भवतीत्यर्थः। कस्य ? कस्यापि कुलीनस्य । किंविशिष्टः सन् ?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org