________________
१५२
अनगारधर्मामृते
दोषेष्वपि ब्रह्महत्यादिषु । ब्रह्मघ्नोपि हि धनी धनलोभाद्वृद्धैरप्याश्रीयते ।
तदुक्तम्
वयोवृद्धास्तपोवृद्धा ये च वृद्धा बहुश्रुताः । सर्वे ते धनवृद्धस्य द्वारि तिष्ठन्ति किङ्कराः ॥
अन्न हे भ्रातः, स्वभ्यस्व आत्मानमुत्कृष्टं संभावय त्वम् । कया ? तया प्रागुक्तविशेषणविशिष्टया श्रिया लक्ष्म्या । अन्नेति मान्यत्वामन्त्रणे । स्वभ्य स्वाङ्गेति वा पाठः । तत्राङ्गेति प्रियत्वामन्त्रणे । चेद्यदि न ह्रियसे न प्रच्याव्यसे त्वम् । कस्मात् ? आन्ध्याद् युक्तायुक्तविवेकवैकल्यात् । किं कुर्वत्या ? यान्त्या आश्रयन्त्या । कम् । अन्यं पुरुषान्तरम् । कथम् ? आशु सद्यः । इयमत्र भावना - क्षणिकतया पुरुषान्तरं गच्छन्त्या लक्ष्म्या यदि सद्योऽन्धवन प्रच्याव्यसे अन्यथा पुरुषान्तरं मम लक्ष्मीरेषा गच्छतीति दुःसहदुःखं प्राप्नुयास्त्वं न चैवं सर्वस्यापि प्रायेण लक्ष्मीसमागमे पश्यतोप्यदर्शनस्य तद्विगमे च दर्शनस्य स्फुटमुपलम्भात् । यल्लोकोक्तिः
संपयपडलहिँ लोयणई वंभजेच्छायंजंति । ते दालिसलाइयई अंजिय णिम्मल हुंति ॥ शिल्पादिज्ञानिनां मदावेशमनुशोचति
शिल्पं वै मदुपक्रमं जडधियोप्याशु प्रसादेन मे, विश्वं शासति लोकवेदसमयाचारेष्वहं दृङ् नृणाम् । राज्ञां कोहमिवावधानकुतुकामोदैः सदस्यां मनः, कर्षत्येवमहो महोपि भवति प्रायोद्य पुंसां तमः ॥ ९१ अहो कष्टं भवति । किं तत् ? महोपि शिल्पादिज्ञानाख्यं तेजोपि । किम् ? तमः स्वपर परिणामाविवेकहेतुत्वादन्धकारः । केषाम् ? पुंसाम् । क ? अद्यास्मिन्काले । कथम् ? प्रायः । कश्चिदद्यापि शिल्पादिज्ञानविशिष्टोपि तद्गर्वं न करोतीत्येवमर्थमेतत् । कथम् ? एवमनेन प्रकारेण । तमेव दर्शयति - वै स्फुटं वर्तते । किं तत् ? शिल्पं पत्रच्छेदादि करकौशलम् ।
• १ अन्नेति पाठस्थाने आत्मेति पाठ संभावये ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org