SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽध्यायः । १५१ wererrrrrrrrxmmmmmmmmmmmmmmmmmmmmm विश्वं विजिष्णुं सम्यक्त्वबलेन समस्तजगद्विजयं साधु कुर्वाणमसहमानो विधाता तव शरीरमनन्योपमं व्यधादित्यहं संभावयामि । इयमत्र भावनाभवान्सम्यक्त्वमाहात्म्याद्विश्वं व्यजेष्यत यदि हतविधिस्तवेदृक् सौरूप्यमुत्पाद्य तन्मदेन सम्यक्त्वं नादूषयिष्यत । अत्रेयं पदघटना-अस्राक्षीत् । कोसौ ? स्रष्टा । किं तद् ? वपुः । कस्य ? ते । किंविशिष्टम् ? अनुपमम् । किं कुर्वन् ? असहन् । कान् ? तानिन्द्वादीन् । किंविशिष्टान् ? उन्मदिष्णून् । कथम् ? ध्रुवं निश्चितम् । न परमेवं, किं तर्हि ? वपुस्ते स्रष्टाऽनाक्षीत् । कि कुर्वन् ? असहन् । कम् ? त्वां च त्वामपि । किविशिष्टम् ? विजिष्णुं विजयते इत्येवं साधुकारी विजिष्णुः । __ लक्ष्मीमदं निषेधुं वक्रभणित्या नियुक्तेया दैवैकनिबन्धना सहभुवां यापनियामामिषं, या विस्रम्भमजस्रमस्यति यथासन्नं सुभक्तेष्वपि । या दोषेष्वपि तन्वती गुणधियं युङ्क्तेनुरक्त्या जनान्, खभ्यस्वान्न तया श्रियाशु हियसे यान्त्यान्यमान्ध्यान्न चेत् ९० या श्रीभवति । कीदृशी ? दैवैकनिवन्धना । दैवमिह पुराकृतं शुभकर्म तदेकं पौरुषनिरपेक्षं निबन्धनं कारणं यस्याः सैवम् । तथा या श्रीवति । किम् ? आमिषं ग्रासो विषयो वा। कासाम् ? आपद्भियां विपदीतीनाम् । कीडशीनाम् ? सहभुवाम् सहोस्थानाम् । तथा चोक्तम् बह्वपायमिदं राज्यं त्याज्यमेव मनस्विनाम् । यत्र पुत्राः ससोदर्या वैरायन्ते निरन्तरम् ॥ तथा या सुभक्तेष्वपि अत्यन्तभक्तियुक्तेष्वपि मध्ये यथासन्नं यो य आसन्नः पुत्रभ्रात्रादिस्तत्र तत्र विनम्भं विश्वासमजतं नित्यमस्यति क्षिपति निवर्तयति सुभक्तेपि पुत्रादौ स्वापहारशङ्कामाविष्करोतीत्यर्थः । तथा या युते योजयति । कान् ? जनान् लोकान् । कया? अनुरक्या. नुरागेण । किं कुर्वती ? तन्वती । काम् ? गुणधियं गुणकल्पनाम् । केषु। Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy