________________
१५०
अनगारधर्मामृते
ल्येन । कथं कृत्त्वा? क्षतसत्त्वं क्षतं हतं सत्वं मनोगुणो यत्र तत् । ततो नु किम् ? क्षिपेः पातयेस्त्वम् । कम् ? स्वमात्मानम् । क ? अधो हीनपदे सम्यक्त्वविराधनायां तस्य सुघटत्वात् । उक्तं च
जातिरूपकुलैश्वर्यशीलज्ञानतपोबलैः। कुर्वाणोऽहंकृति नीचं गोत्रं बध्नाति मानवः ॥ किं कुर्वन् ? पश्यन् मनसालोकयन् । कम् ? स्वम् । क ? उपरि प्रक्रमवशासधर्मणाम् । कया ? जात्या च कुलेन च । कथम् ? मृषा सवयेनापि संवृतिमता जातिकुलयोः परमार्थतः शुद्धेनिश्चेतुमशक्यत्वात् । सदुक्तम्
अनादाविह संसारे दुर्वारे मकरध्वजे। कुंले च कामिनीमूले का जातिपरिकल्पना ॥ सौरूप्यमदाविष्टस्य दोषं दर्शयति
यानारोप्य प्रकृतिसुभगानङ्गनायाः पुमांसं, पुंसश्चास्यादिषु कविठका मोहयन्त्यङ्गनां द्राक् । तानिन्द्वादीन परमसहन्नुन्मदिष्णन्वपुस्ते,
स्रष्टाऽस्राक्षी ध्रुवमनुपमं त्वां च विश्वं विजिष्णुम्।।८९ मोहयन्ति वैचित्र्यं नयन्ति । के ? कविठकाः। लोकोत्तरवर्णनानिपुणकवयष्ठका इव पुरुषार्थोपमर्दकत्वात् । कम् ? पुमांसम् । कथम् ? द्राग् वर्णनानन्तरमेव । किं कृत्वा ? आरोप्य कल्पयित्वा । कान् ? यान् इन्द्वादीन् चन्द्रकमलादीनुपमानभूतानर्थान् । किंविशिष्टान् ? प्रकृतिसुभगान् निसर्गरम्यान् । केषु ? आस्यादिषु मुखनयनादिषूप. मेयभूतेष्वर्थेषु । कस्याः ? अङ्गनायाः कामिन्याः। तथा कविठका अङ्गनां च मोहयन्ति द्राक् । किं कृत्वा ? यान् प्रकृतिसुभगानिन्द्वादीन्पुंसः पुरुषस्यास्यादिष्वारोप्य । ध्रुवमहमेवं मन्ये तानिन्द्वादीनुन्मदिष्णून स्वोत्कर्षसंभाविनो न परं न केवलमसहन्नसहमानो वपुस्ते तव शरीरमनुपमं मुखादिषु चन्द्राधुपमातीतं स्रष्टा विधाताऽस्राक्षीत् प्रत्युत चन्द्रादीनप्युपमेयान्कर्तुं सृष्टवानिति भावः । किं नु त्वां च त्वामपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org