________________
द्वितीयोऽध्यायः ।
१४९
संभावयन् जातिकुलाभिरूप्यविभूतिधीशक्तितपोर्चनाभिः । स्वोत्कर्षमन्यस्य सधर्मणो वा कुर्वन् प्रधर्ष प्रदुनोति दृष्टिम्८७
प्रदुनोति माहात्म्यादपकर्षति पुरुषः । काम् ? दृष्टिं सम्यक्त्वम् । किं कुर्वन् ? संभावयन् । कम् ? स्वोत्कर्षम् । काभिः ? जात्यादिभिः । जातिर्मातृपक्षः । कुलं पितृपक्षः । आभिरूप्यं सौरूप्यम् । विभूतिमसुवर्णादिसमृद्धिः। धीः शिल्पकलादिज्ञानम् । शक्तिः पराक्रमः । तपोनशनाद्यनुष्टानम् । अर्चना पूजा । जात्यादीनामितरेतरयोगो द्वन्द्वः । जात्यादिभिर्व्यस्तैः समस्तैर्वा । अहमस्मादुत्कृष्ट इत्युत्प्रेक्षमाण इत्यर्थः । न केवलं स्वोत्कर्ष संभावयन् कुर्वन् वा । कं ? प्रधर्ष जात्यादिद्वारेण तिर. स्कारम् । कस्य ? अन्यस्य । किंविशिष्टस्य ? सधर्मणः साधर्मिकस्य । जातिकुलमदयोः परिहारार्थमाहपुंसोपि क्षतसत्त्वमाकुलयति प्रायः कलकैः कलौ, सदृगवृत्तवदान्यतावसुकलासौरप्यशौर्यादिभिः । स्त्रीपुंसः प्रथितैः स्फुरत्यभिजने जातोसि चैदैवत,--- स्तजात्या च कुलेन चोपरि मृषा पश्यन्नधः खं क्षिपेः ८८
भो जातिकुलोचमन्य, जातोसि चेद् यद्युत्पन्नस्त्वमसि । क ? अमिजनेऽन्वये । कस्मात् ? दैवतः प्राक्तनपुण्यविपाकात् । किं कुर्वति ? स्फुरति जनमनस्सु चमत्कुर्वति । कैः ? स्त्रीपुंसैर्नारीनरैः । किंविशिष्टैः ? प्रथितैः ख्यातैः । कैः ? सदित्यादि । सदृग्वृत्ते सम्यक्त्वसदाचारौ । वदान्यता दानशौण्डत्वम् । वसु धनम् । कला गीतादयः । सौन्दर्य चारुत्वम् । शौर्य वीरत्वम् । आदिशब्देन नयविनयगाम्भीर्यशौंडीर्यादि । दृक् च वृत्तं च दृग्वृत्ते । सती च दृग्वृत्ते च सम्वृत्ते । ते च वदान्यता च वसु च कलाश्च सौदर्य च शौर्यादयश्चेति द्वन्द्वः। कदा ? कलौ दुःषमासमये। किं कुर्वति? आकुलयति दूषयति सति । कान् ? पुंसोपि किं पुनः स्त्रीः इत्यपि शब्दार्थः । कैः ? कलङ्करपवादैः । कथम् ? प्रायो बाहु
। १ श्लोकेत्र सौरूप्यशब्दोस्ति टीकायां तु सौन्दर्यशब्दो वर्तते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org