________________
१४८
अनगारधर्मामृते
इत्याराधनाशास्त्रोक्काः पञ्च सम्यक्त्वातीचाराः सूत्रिताः प्रतिपत्तव्याः।। मिथ्यात्वाख्यमनायतनं निषेधुं यतयतिसम्यक्त्वगन्धकलमः प्रबलप्रतिपक्षकरटिसंघट्टम् । कुर्वन्नेव निवार्यः स्वपक्षकल्याणमभिलषता ।। ८५ ॥
निवार्यो निषेधनीयः सम्यक्त्वाराधनोद्यतेन भव्येन यूथनाथेन यथा। कोसौ ? सम्यक्त्वगन्धकलभः। सम्यक्त्वं गन्धकलभ इव यूथस्येव ज्ञानचारित्रस्यागामिपरिपुष्टिनिमित्तत्वात्। गन्धेन विशिष्टः कलभः करिपोतो गन्धकलभः । किं कुर्वन् ? कुर्वन्नेव, न कृतवान् । कर्तुमुद्यत इत्यथः । कम् ? प्रेत्यादि । प्रतिपक्षः सम्यक्त्वापेक्षया मिथ्यात्वं गन्धकलभापेक्षया प्रतिपक्षः करटी प्रत्यनीकयूथनाथः प्रतिपक्षकरटी। प्रतिहस्तीव प्रतिलोमवृत्तित्वात् । प्रबलो दुर्निवारः प्रतिपक्षकरटी प्रबलप्रतिपक्ष. करटी । तेन सह संघट्टः प्रतिजिघांसया संघटना, तम् । किं कुर्वता ? अभिलषता वाग्छता। किम् ? स्वपक्षस्यात्माभ्युपगतव्रतादेर्निजयूथस्य च कल्याणं कुशलम् । सम्यक्त्वप्रौडिमतो मदमिथ्यात्वावेशशङ्कां निरस्यति
मा भैषीदृष्टिसिंहेन राजन्वति मनोक्ने ।
न मदान्धोपि मिथ्यात्वगन्धहस्ती चरिष्यति ।। ८६ ।। भो सुदृढसदृष्टे, मा भैषीर्मा भयं कार्षीस्त्वं, यतो न चरिष्यति न चेष्टिष्यते । कोसौ ? मिथ्यात्वगन्धहस्ती । मिथ्यात्वं गन्धहस्तीव, वन. स्येव मनसो विप्लावकत्वात् । क ? मनोवने । मनश्चित्तं वनमाराम इव, कामितफलदानसमर्थत्वात् । किंविशिष्टे ? राजन्वति । दुष्टनिग्रहशिष्टपरि पालनपरेण राज्ञा युक्ते । परपराभवाविषये इत्यर्थः । केन ? दृष्टिसिंहेन सम्यक्त्वकेसरिणा । किंविशिष्टोपि ? मदान्धोपि । मदैर्जात्याद्यभि. मानैरन्धयति युक्तायुक्तालोकन विकलं पुरुषं करोतीति मदान्धः । पक्षे, मदेन दानजलेनोन्मार्गचारी च ।
जात्यादिभिरामोत्कर्षसंभाविनः सधर्माभिभवनमुखेन सम्यक्त्वमाहात्म्य. हानि दर्शयति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org