________________
द्वितीयोऽध्यायः।
१४७
तत्तस्मादत्रैतयोर्द्रव्यभावयोर्मध्ये किं मया विचिकित्स्यं जुगुप्स्यं, न किमपि । इति भावयन् शुद्धचिदात्मानमात्मानं सदृष्टिरध्यासीत । तथा स्मरेदसौ। कम् ? उहायनमुद्दायननामानं राजानम् । कस्मिन् कर्तव्ये ? मुनिरुगुद्धरणे मुनीनां रुजो रोगादुद्धरणे निःसारणे । मुनीन् छादिकं कुर्वतः प्रतिकुर्वाणः शूकां न कुर्यादित्यर्थः ॥
परदृष्टिप्रशंसाख्यं सम्यक्त्वमलं निषेधुं प्रयुङ्क्तेएकान्तध्वान्तविध्वस्तवस्तुयाथात्म्यसंविदाम् । न कुर्यात्परदृष्टीनां प्रशंसां दृक्कलङ्किनीम् ॥ ८३ ॥ _ न कुर्यात् सद्दृष्टिः । काम् ? प्रशंसां श्लाघाम् । केषाम् ? परदृष्टीनाम् । परनानेकान्तादन्यत्र सर्वथैकान्ते दृष्टिरभिनिवेशो येषां ते परदृष्टयो बौद्धादयस्तेषाम् । किंविशिष्टानाम् ? एकांतेति । एकान्तध्वान्तेन सर्वथा क्षणिकाद्यभिनिवेशितमिरेण विध्वस्ता निरस्ता वस्तुयाथात्म्यसंविदऽनेकान्ततत्त्वसंवित्तिर्येषां ते तथोक्ताः । किंविशिष्टां तत्प्रशंसाम् ? दृक्कलङ्किनी सम्यक्त्वदूषणशीलाम् ।
अनायतनसेवाख्यं दृष्टिदोषं निषेधयितुमाहमिथ्यादृग्ज्ञानवृत्तानि त्रीणि त्रीस्तद्वतस्तथा । पडनायतनान्याहुस्तत्सेवां दृमलं त्यजेत् ॥ ८४ ॥
आहुः ब्रुवन्त्याचार्याः । कानि? अनायतनानि । कति? षट् । कथम् ? मिथ्याग्ज्ञानवृत्तानि त्रीणि मिथ्यादर्शनं मिथ्याज्ञानं मिथ्याचारित्रं च । तथा तद्वतो मिथ्यागादियुक्तान् पुरुषांस्त्रीन् मिथ्यास्विनं मिथ्याज्ञानिनं मिथ्याचारित्रिणं च। त्यजेत् । सम्यक्त्वाराधनोद्यतः । काम् ? तत्सेवां तेषां पण्णांमप्युपासनाम् । किंविशिष्टाम् ? दृग्मलं सम्यक्त्वदोषं यतः । एतेन
"सम्मत्तादीचारा संका कंखा तहेव विदिगिंछा। परदिट्ठीण पसंसा अणायदणसेवणा चेव ॥" १ तथोक्ता इत्यस्य स्थाने 'तेषाम्' इति पाठ एव समीचीनो, मुले षष्ठीबहुवचनस्योपलम्भात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org