________________
१४६
अनगारधर्मामृते
स्नानादिप्रतिकर्मदूरमनसः प्रव्यक्तकुत्स्याकृर्ति, कायं वीक्ष्य निमज्जतो मुदि जिनं स्मर्तुः क शूको द्रमः ॥८१॥
क स्थान कापि । कोसौ ? शूकोद्गमः । शुकाया जुगुप्साया उद्गमः अद्भूतिः । कस्य ? सद्दृष्टेः । किं कुर्वतः ? निमज्जतो बुडतः । क्क ? मुदि आनन्दे । किंविशिष्टस्य सतः ? स्मर्तुः । स्मरति तच्छीलः । कम् ? जिनमईहारकम् । किं कृत्वा ? वीक्ष्य दृष्ट्वा । कम् ? कायम् । किंविशिष्टम् ? प्रव्यक्तकुत्स्याकृतिमऽत्यन्तप्रकटितबीभत्सनीयरूपम् । कस्य ? तपस्विनः । किंविशिष्टस्य ? आसेदुष आश्रितस्य । किम् तत् ? लिङ्गमाचेलक्यलोचादिकम् । किंविशिष्टम् ? उदयन्निर्वेदं वर्धमानवैराग्यम् । किं कृत्वा ? आप्य प्राप्य । किम् ? किंचिदिष्टवियोगादिकं कारणम् । पुनः किंविशिष्टस्य ? स्नानादिप्रतिकर्मदूरमनसः स्नानाभ्यङ्गादिप्रसाधनादत्यन्तनिवृत्तचित्तस्य । कया ? भिया भयेन । कस्मात् ? अवद्यात् पापात् । कथम् । उश्चैरतिशयेन । क्व सति ? स्थितिमात्रविध्यनुगमेपि । स्थितिरेव स्थितिमात्रं, न वहिश्चाक चिक्या दिकम् । तस्मै विधिर्विहिताचरणम् । तस्यानुगमेनुवर्तने । कस्मै ? धर्माय धर्म साधयितुम् । कायो यथा तिश्रुति तथा विहितमशनादिकमनुतिष्ठतोपीत्यर्थः । विचिकित्साविरहे यत्नमुपदिशति
1
द्रव्यं विडादि करणैर्न मयैति पृक्तिं, भावः क्षुदादिरपि वैकृत एव मेऽयम् । तत्किं मयात्र विचिकित्स्यमिति स्वमृच्छे, - दुद्दायनं मुनिरुगुद्धरणे सरेच्च ॥ ८२ ॥
ऋच्छेदाविशेत् सद्दृष्टिः पुमान् विचिकित्सायामुद्भवन्त्याम् । कम् ? स्वमात्मानम् । कथम् ? इत्येवं एति गच्छति । किम् तद् ? द्रव्यम् । किंविशिष्टम् । बिडादि विष्टामूत्रादि । काम् ? पृक्ति संपर्कम् । कैः सह ? करणैरचेतनैः स्पर्शनादीन्द्रियैः, न मया चिद्रूपेण मूर्तस्य मूर्तेनैव संप
पपत्तेः । तथायं प्रतीयमानो मे मम संबन्धी क्षुदादिः क्षुत्तृष्णादिर्भाचोपि स्यात् । किंविशिष्टः ? वैकृत एव वैकारिक एव कर्मोदयकृतत्वात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org