________________
द्वितीयोऽध्यायः।
१४५
विचिकित्सातिचारं लक्षयतिकोपादितो जुगुप्सा धर्माङ्गे याऽशुचौ स्वतोऽङ्गादौ । विचिकित्सा रत्नत्रयमाहात्म्यारुचितया दृशि मलः सा ॥७९॥
सा विचिकित्सा स्यात् । किम् ? मलो दोपः। क्व ? दृशि सम्यक्त्वे । कया ? रत्नत्रयमाहात्म्यारुचितया सम्यग्दर्शनादिप्रभावारोचकत्वेन । या किम् ? या जुगुप्सा स्यात् । क्व ? अङ्गादौ शरीरादौ द्रव्ये क्षुत्तृष्णादौ भावे च । किंविशिष्टे ? अशुचौ अपवित्रेऽरम्ये च । कुतः ? स्वतः स्वभावेन । पुनः किंविशिष्टे ? धर्माते । रत्नत्रयसाधने । कस्मात् ? को. पादितः क्रोधादिवशात् । महतां स्वदेहे निर्विचिकित्सितामाहात्म्यमाह
यद्दोषधातुमलमूलमपायमूलमङ्गं निरङ्गमहिमस्पृहया वसन्तः। सन्तो न जातु विचिकित्सितमारभन्ते
संविद्रते हृतमले तदिमे खलु खे ॥ ८० ॥ इमे सन्तो हृतमले विलीनकर्ममालिन्ये स्वे आत्मनि खलु निश्चयेन तत्संविद्रते संवित्तिं लभन्ते । यत्किम् ? यज्ञातु कदाचित्सन्तः साधवो विचिकित्सितं जुगुप्सां नारभन्ते न कुर्वन्ति । किं कुर्वन्तः ? आवसन्तोधितिष्ठन्तः । किं तत् ? अझं शरीरम् । किंविशिष्टम् ? दोषधातुमलमूलम् । दोषा वातपित्तकफाः । धातवो रसा असृङ्मांसदो. स्थिमजशुक्राणि । मला दूषिका प्रस्वेदादयः । ते मूलं प्रतिष्ठा आश्रयो यस्य, शुक्रार्तवस्थै स्तरारब्धत्वात् । तथाऽपायमूलं विनिपातकारणम् । क. याऽऽवसन्तः ? निरङ्गमहिमस्पृहया निरङ्गा अशरीरा मुक्तात्मानः । तेषां महिमा अनन्तज्ञानादिगुणसंपत् तदभिलाषेण ॥ . महासत्वानां निमित्तसन्निधानेपि जुगुप्सानुद्भवं भावयतिकिंचित्कारणमाप्य लिङ्गमुदयनिर्वेदमासेदुषो, धर्माय स्थितिमात्रविध्यनुगमेप्युच्चैरवद्याद्भिया ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org