________________
१४४
अनगारधर्मामृते
भवरसे । अस्मात्पुण्योदयादभ्युदयातिशयो मे भूयादिति वृथा कल्पयसी. त्यर्थः । किं कृत्वा ? प्राध्वंकृत्त्य बवा । किं तत् ? तत्पुण्यम् । यत्किम् ? यत् तत्त्वश्रद्धानादिजनितं पुण्यं कर्तृ प्रगुणयति सजयति कारयतीत्यर्थः । काम् ? अर्हणां पूजाम् । कैः कर्तृभिः ? गीर्वाणाग्रणीभिः शक्रादिभिः । कैः कृत्वा ? गुणैस्तीर्थकरत्वादिभिः । किंविशिष्टैः ? अर्ह. णीयैः । पूज्यैः। तत्त्वश्रद्धानं च बोधश्च ताभ्यामुपहितानि विशिष्टानि यमतपःपात्रदानपरोपकारादीनि पुण्यसाधनानि तजनितं सुकृतं तत्पु. ण्यं हि यस्मात् तादृक् पुण्यं भवति । किंविशिष्टम् ? स्वैरं त्वत्कल्पनानि. रपेक्षम् । क? तत्र संसारसारे चरति च प्रवर्तते । किं तत् ? पुण्यम् । कथम् ? तामनु तया त्वबुद्धया सह । कस्मै ? पुनर्जन्मने उत्तमदेवमनुष्यत्वलक्षणपुनर्भवार्थम् , अजन्मने वा अपुनर्भवार्थम् ॥ आकाङ्क्षानिरोधेऽतियनमुपदिशति
पुण्योदयैकनियतोभ्युदयोत्र जन्तोः, प्रेत्याप्यतश्च सुखमप्यभिमानमात्रम् । तन्नात्र पौरुषतृषे परवागुपेक्षा,
पक्षो घनन्तमतिवन्मतिमानुपेयात् ।। ७८ ॥ जन्तो वस्यात्रेह लोके प्रेत्यापि परलोके वाभ्युदयः स्यात् । कीदृशः ? पुण्योदयैकनियतः पुण्योदयेनैकेन पौरुषरहितेन नियतः प्रतिबद्धः। पुण्योदये सत्येव भवति तदभावे न भवत्येवेत्यर्थः । अतश्चाभ्युदयात्सुखमपि स्यात् । कीदृशम् ? अभिमानमात्रमहं सुखीत्यनुरक्तकल्पनामात्रम् । यत एवं तत्तस्मान्नोपेयाद् नाश्रयेत् । कोसौ ? मतिमान् प्रेक्षापूर्वकारी । के ? पौरुषतृषे । क ? अत्र एतयोरभ्युदयतजनितसुखयोः अभ्युदयसाधने पुरुषकारं तत्सुखे च तृष्णां न कुर्यादित्यर्थः । किंवत् ? अनन्तमतिवत् । अनन्तमतिर्नाम श्रेष्ठिपुत्री यथा। कथंभूतो भूत्वा ? परवागुपेक्षापक्षः । परवाचः सर्वथैकान्तवादिमतानि । तत्रो. पेक्षा रागद्वेषोपरमः । सैव पक्षोभ्युपगमो यस्य स एवम् । हि स्फुटार्थे । ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org