________________
द्वितीयोऽध्यायः।
विद्यते कुर्वन्ति । के ? आकुलधियः। आकुला विषयसेवनोत्सुका धीरन्तःकरणप्रवृत्तिर्येषां ते । किं तत् ? सम्यक्त्वरत्नम् । किंविशिष्टम् ? भवश्रीदासीरतिमूल्यम्। भवश्री: संसारलक्ष्मीर्दासी कर्मकरीव कर्मस्वामिपरतत्रत्वात् । भवश्रीदास्या रतिः संभोगः । तस्या मूल्यं भाटीप्रदा. नम् । किं कुर्वत् ? उत्कयदुत्कण्ठितां कुर्वत् । काम् ? तां मुक्तिश्रियम् । कोसौ तच्छब्देन परामृश्यते इत्याह, यल्लीलेत्यादि । मृदन्ति संचूर्णयन्ति । के ? इन्द्रादयः। इन्द्रः शचीपतिरादिर्येषामहमिन्द्रादीनां तेपि । कम् ? रमणीयकमदं रतिकारित्वाहंकारम् । कासाम् ? स्वश्रीणां निजलक्ष्मीणाम् । कथं कृत्वा ? बह भृशमित्यर्थः। किंविशिष्टाः सन्तः ? लालसा अतिलम्पटाः । किं कर्तुंम् ? पातुमनुभवितुम् । कम् ? यदित्यादि । लीलया यदृच्छया चलश्वञ्चलः । स चासौ लोचनाञ्चलो नेत्रविभागान्तस्तजो रसो हर्षों यस्या मुक्तिश्रियो लीलाचललोचनाञ्चलरसस्तम् । निर्विकारपरमचिञ्चमत्कारमात्रानुभूतसंभूतसहजानन्दस्वभावसुखामृतमित्यर्थः । कथम् ? पुनर्भूयः। इयमन भावना त्रिलोके तपश्वरद्भिर्यत्प्रशमसुखमनुभूतं तत्पुनरनुभवितुकामाः स्वर्विभूतिसुखेष्वरज्यन्तः पुनः प्रशमसुखाय तपश्चरितुमत्रावतरीतुमिन्द्रादयोपीच्छन्ति । अत्र समर्थनमाहहि यस्माद्भवति । कोसौ ? धन्यः सुकृती । किंविशिष्टः ? अविद्यातिगः । अविद्ययानभिभूयत इत्यर्थः । अनित्याशुचिदुःखानात्मसु विपरी. तख्यातिरविद्या ॥
सम्यक्त्वादिजनितपुण्यानां पुंसां संसारसुखाकाङ्क्षाकरणान्न किमपि फलं स्यादिति दर्शयति-.
तत्त्वश्रद्धानबोधोपहितयमतपःपात्रदानादिपुण्यं, यद्गीर्वाणाग्रणीभिः प्रगुणयति गुणैरहणामहणीयैः। तत्प्राध्वंकृत्य बुद्धिं विधुरयसि मुधा कापि संसारसारे, तत्र खैरं हि तत् तामनुचरति पुनर्जन्मनेऽजन्मने वा ७७
भो सुखार्थिन्, मुधा विधुरयसि । विफलं विक्लवां करोषि त्वम् । काम् ? बुद्धिम् । क ? क्वापि क्वचिदाकाङ्क्षाकोडीकृते. संसारसारे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org