SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ १४२ अनगारधर्मामृते स्याज्ज्ञानावरणोदयैकज नितभ्रान्तेरिदं दृक्तपो, माहात्म्यादुदियान्ममेत्यतिचरत्येषैव काङ्क्षा दृशम् ७५ ॥ 1 अतिचरति देशतः खण्डयति । कासौ ? काङ्क्षा । किंविशिष्टा ? एषैव येत्यादिना प्रक्रान्ता, न कृष्यादिना धान्यधनादावाकाङ्क्षा, अन्यथातिप्रसङ्गात् । काम् ? दृशं सम्यक्त्वम् । या किम् ? या स्यात् । कासौ ? स्पृहा इच्छा | क ? संसारसौख्ये । किंविशिष्ठे ? रागात्मनि दृष्टवस्तुविषयप्रीतिरूपे । तभा भङ्गुरे स्वयमेव नाशिनि । तथा परवशे पुण्योदयाधीने । तथा संतापतृष्णारसे । रस्येतेनुभूयेते इति रसावनुभवौ । संतापतृष्णे रसावनुभवौ फले यस्मात् तदेवम् । तथा दुःखे । कया ? दुःखदबन्धकारणतया । दुःखदश्चासौ बन्धश्चाशुभकर्मोप श्लेषो दुःखदबन्धः । तस्य कारणं, तद्भावेन । कस्य ? ज्ञानावरणोदयैकजनितभ्रान्तेः । ज्ञानावरणोदयेनैकेन जनिता भ्रान्तिर्यथोक्ते संसारसुखे सुखबुद्धिर्यस्य स एवम्। एक इति दृमोहोदय सहायरहितः । सुदृष्टीनां तन्निमित्तभ्रान्त्यसंभवादन्यथा मिथ्याज्ञानप्रसङ्गात् । तथा चोक्तम् उदये यद्विपर्यस्तं ज्ञानावरणकर्मणः । तदस्थास्नुतया नोक्तं मिथ्याज्ञानं सुदृष्टिषु || कथं कृत्त्वा तत्रासौ स्यादित्यत्राहेदमित्यादि । उदियादुद्भूयात् । किं तत् ? इदमिन्द्रादिपदं संसारसौख्यं वा । कस्य ? मम । कस्मात् ? हक्तपोमाहात्म्यात् सम्यक्त्वस्य तपसो वा प्रभावात् । उक्तं च स्यां देवः स्यामहं यक्षः स्यां वा वसुमतीपतिः । यदि सम्यक्त्वमाहात्म्यमस्तीतीच्छां परित्यजेत् ॥ आकाङ्क्षापराणां सम्यक्त्यफलहानिं कथयति — यल्लीलाचललोचनाञ्चलरसं पातुं पुनर्लालसाः, स्वश्रीणां बहु रामणीयकमदं मृद्रन्त्यपीन्द्रादयः । तां मुक्तिश्रियमुत्कयद्विदधते सम्यक्त्वरत्नं भव, श्रीदासीरति मूल्यमाकुलधियो धन्यो ह्यविद्यातिगः ॥ ७६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy