________________
द्वितीयोऽध्यायः।
१४१
प्रतीर्यते प्रतिक्षिप्यते प्रतिहन्यते इत्यर्थः। कोसौ ? सुरुचिः सुदृष्टिः पुरुषः । कैः ? तैर्द्विषद्भिः । किंविशिष्टोपि ? कृतनिश्चयोपि एते मयावश्यं हन्तव्या इति विहिताग्रहोपि । किं कर्तुम् ? हन्तुम् । कान् ? द्विषतो मोहारीन् । किंविशिष्टः सन् ? आश्रितः। कम् ? प्रत्ययं प्रतीतिम् । किं कुर्वन्तम् ? स्पृशन्तमालम्बमानम् । काम् ? कोटिं वस्त्वंशम् । किंविशिष्टाम् ? उभयीम् । इदं स्यादन्यथा वेत्येवंरूपां शङ्कामित्यर्थः । व? जिनवाचि सर्वज्ञवचने । क इव ? वीर इव । यथा शूरः पुरुषः सुरुचिः सुदीप्तिः शत्रून्निहन्तुं कृतनिर्बन्धोपि आजौ रणभूमौ कोटिं तदंशमुभयीं पौरस्त्यां पाश्चात्त्यां च स्पृशन्तं धावेन गच्छन्तं वाजिनमारूढस्तैः प्रतिहन्यते इत्युपमालंकारः॥ भयसंशयात्मकशङ्कानिरासे यत्नमुपदिशति
भक्तिः परात्मनि परं शरणं नुरस्मिन् , देवः स एव च शिवाय तदुक्त एव । धर्मश्च नान्य इति भाव्यमशङ्कितेन,
सन्मार्गनिश्चलरुचेः सरताऽञ्जनस्य ।। ७४ ॥ भाव्यं भवितव्यं मुमुक्षुणा । किंविशिष्टेन ? अशङ्कितेन भयसंशय. रहितेन । तद्भेदाद्विधा हि शङ्का । कथम् ? इति अनेन प्रकारेण भवति । कासौ ? परात्मनि परमात्मनि भक्तिर्भावविशुद्धोऽन्तरङ्गानुरागः । किम् ? शरणमपायरक्षणोपायः। कस्य ? नुः पुरुषस्य । क ? अस्मिन्लोके । कथम् ? परं केवलम् । तथा भवति । कोसौ ? स एव परात्मा । किंविशिष्टः ? देव आराध्यः । कस्मै ? शिवाय मोक्षाय । नान्यः शिवादिः। तथा तदुक्त एव धर्मः शिवाय भवति, नान्यः शिवायुक्तः । किं कुर्वतैवमशङ्कितेन भाव्यम् ? स्मरता ध्यायता । कस्य ? अञ्जनस्य अञ्जनना. मानं चौरमित्यर्थः । किंविशिष्टस्य ? सन्मार्गनिश्चलरुचेः। सन्मार्गे सत्पथे निश्चला निष्कम्पा रुचिः श्रद्धा यस्य स एवम् ॥ काङ्घातिचारनिश्चयार्थमाह
या रागात्मनि भगुरे परवशे सन्तापतृष्णारसे, दुःखे दुःखदबंधकारणतया संसारसौख्ये स्पृहा ।
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org