________________
१४०
अनगारधर्मामृते
शङ्कानिराकरणे नियुङ्क्ते
प्रोक्तं जिनैन परथेत्युपयन्निदं स्यात् , किंवान्यदित्थमथवाऽपरथेति शङ्काम् । स्वस्योपदेष्टुरुत कुण्ठतयानुषक्तां,
सयुक्तितीर्थमचिरादवगाह्य मृज्यात् ॥ ७२ ॥ मृज्यात् शोधयेदपनयेन्मुमुक्षुः । किं कुर्वन् ? जिनैर्वीतरागसर्वज्ञैः प्रोक्तं सर्वमनेकान्तात्मकमिति मतं न परथा नान्यथा स्यादित्युपयन् गृह्णन् । काम् ? शङ्काम् । कस्मात् ? अचिरात्तत्क्षणादेव । किं कृत्वा ? अवगाह्य अन्तः प्रविश्य । किं तत् ? सद्युक्तितीर्थ युक्त्यागमकुशलमुपाध्यायं युक्त्यनुगृहीतमागमं वा, तयोरेव परमार्थतीर्थत्वात् । तदुक्तम्
जैनश्रुततदाधारौ तीर्थ द्वावेव तत्त्वतः। संसारस्तीर्यते ताभ्यां तत्सेवी तीर्थसेवकः ॥ सती समीचीना अबाधिता युक्तियप्रमाणात्मको हेतुर्यस्य यत्र वा तत् सयुक्ति । लौकिकोपि हि पङ्कादिलेपं कथंचित् प्रमादाल्लग्नं सयुक्तिनिरुपसर्ग तीर्थ नद्यादिघमचिरादवगाह्य शोधयतीत्युक्तिलेशः । किंविशिष्ट शङ्काम् ? अनुषक्तां हृदि विलग्नाम् । कया ? कुण्ठतया मतिमान्छन । कस्य ? स्वस्यात्मनः । उत अथवा उपदेष्टगुर्वादेः कुण्ठतया वचनानयेन अनावरणेन वा। किंरूपां शङ्काम् ? इदं स्यादित्यादि । इदं जिनोक्तं धर्मादितत्त्वं किं स्यादन्यद्वा स्याद्वैशेषिकोक्तं द्रव्यगुणादि नैयायिकोक्तं वा प्रमाणप्रमेयादि सांख्योक्तं वा प्रधानपुरुषादि बौद्धोक्तं वा दुःखसमु. दयादि । तथा किमिदं जिनोक्तं तत्वमित्थं सामान्यविशेषात्मकत्वेन प्रकारेण स्यादथवाऽपरथा भेदैकान्तादिप्रकारेण स्यात् । इत्येवं विमर्शरूपाम् ।
शङ्कातिचारादपायं दर्शयतिसुरुचिः कृतनिश्चयोपि हन्तुं द्विषतःप्रत्ययमाश्रितः स्पृशन्तम् । उभयीं जिनवाचि कोटिमाजौ तुरगं वीर इव प्रतीयते तैः ७३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org