________________
द्वितीयोऽध्यायः।
१३९
क्वम्। किंविशिष्टा ? दुःखेत्यादि । दुःखं प्रायेण यस्मिन्नसौ दुःखप्रायो बहुदुःखोऽर्थादल्पसुखश्च भवः संसारो दुःखप्रायभवः। तस्योपायः साक्षात्कर्मबन्धोऽसाक्षाच मिथ्यात्वादित्रयम् । तस्य छेदेऽत्यन्तविश्लेषे उद्युक्ता उद्यता उक्तं च
नाङ्गहीनमलं छेत्तुं दर्शनं जन्मसंततिम् । न हि मन्त्रोऽक्षरन्यूनो निहन्ति विषवेदनाम्॥ अतीचारो हि दर्शनसापेक्षस्थान्तवृत्त्या बहिर्वृत्त्या वांशखण्डनमुच्यते ॥ शङ्कालक्षणमाहविश्वं विश्वविदाज्ञयाभ्युपयतः शङ्कास्तमोहोदयाज, ज्ञानावृत्त्युदयान्मतिः प्रवचने दोलायिता संशयः । दृष्टिं निश्चयमाश्रितां मलिनयेत्सा नाहिरज्ज्वादिगा, या मोहोदयसंशयात्तदरुचिः स्यात्सा तु संशीतिदृक् ॥७१ शङ्का शङ्काख्योतीचारो भण्यते। कोसौ ? संशयः। किमात्मा ? मतिः प्रतिपत्तिः। किंविशिष्टा ? दोलायिता दोलेवाचरिता । उभयकोटिस्पर्शिनीत्यर्थः। क विषये ? प्रवचने सर्वज्ञोक्ततत्त्वे । कस्मात् ? ज्ञानावृत्त्युदयाज्ज्ञानावरणकर्मविपाकात् । किंविशिष्टात् ? अस्तमोहो. दयात् । अस्तस्तिरोभूतः शुभपरिणामनिरुद्धस्वरसो मोहोदयः सम्यक्त्वाख्यइग्मोहविपाको यस्मिन् स एवम् । कस्य ? पुंसः । किं कुर्वतः ? अभ्युपयतस्तथा प्रतीतिगोचरं कुर्वतः। किं तत् ? विश्वं समस्तं वस्तुविस्तारम् । कया? विश्वविदाशया विश्वविदः सर्वज्ञस्याज्ञा शासनं तया । सा च प्रवचनगोचरा शङ्का मलिनयेषयेत् । काम् ? दृष्टिम् । किंविशिष्टाम् ? आश्रिताम् । कम् ? निश्चयं प्रत्ययम् । न तु मलिनयेत् । सा शङ्का दृष्टिम् । किंविशिष्टा ? अहिरवादिगा अहिर्वा रज्वादिति स्थाणुर्वा पुरुषो वेत्यादिका । या तु स्यात् । कासौ ? तदरुचिः प्रवचनाश्रद्धा । कस्मात् ? मोहोदयसंशयादू दर्शनमोहोदयसंपादितसंदेहात् । सा शङ्का संशीतिदृक् संशयमिथ्यात्वं भण्यते । सातिचारः स ह्येकदेशभङ्गः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org