________________
१३.८
अनगारधर्मामृते
पवयणं ण सद्दहदि ।
मिच्छारट्ठी जीवो उव सद्दहदि असम्भावं उवहूं अणुवइङ्कं वा ॥
अमृत मृतः । कोसौ ? अयमहमित्यनुपचरितप्रत्ययगोचर आत्मा जीवः । किंविशिष्टः सन् ? ताहग् मिथ्यादृक् । कियन्तं कालम् ? आभवमासंसारमनादिकालमित्यर्थः । इत्यस्माद्धेतोस्तत्वश्रद्धां प्रपुष्येदित्यर्थः । किंरूपाम् ? इदमेवेत्यादि । वर्तते । किं तत् ? इदमेव प्रतीयमानं निर्ग्रन्थम् । ग्रनन्ति दीर्घीकुर्वन्ति संसारमिति ग्रन्था मिथ्यादर्शनज्ञानचारित्राणि । तेभ्यो निष्क्रान्तं रत्नत्रयमित्यर्थः । किंविशिष्टम् ? आगमार्थः सकलप्रवचनवाच्यम् । तथा विश्वसारं सकलजगदुत्कृष्टम् । तथा इदमेव निर्मन्थं सुविमलमत्यन्तशुद्धं सद्भवति । किंविशिष्टम् ? अमृताध्वा अमृतस्य जीवन्मुक्तेः परममुक्तेश्चाध्वा मार्गः प्रायुपायः । इतिशब्दः स्वरूपार्थः । मिथ्यात्वादित्रयं हेयं तत्वं रलत्रयं चोपादेयमित्येवं विप्रतिपत्तिरूपमित्यर्थः । तदुक्तम्
णिग्गंथं पावयणं इणमेव अणुत्तरं सुपरिसुद्धं । इणमेव मोक्खमग्गोत्ति मदी कायव्विया तम्हा ॥
दोषः स्वकार्यकारित्वहापनं स्वरूपाल्पीकरणं वा । तद्विपरीतो गुणः । विनयः प्रश्रयः । दोषाणामुज्झनं त्यजनं दोषोज्झनम् । गुणाश्च विनयश्च गुणविनयाः । तेषामापादनं प्रापणं गुणविनयापादनम् । दोषोज्झनं च गुणविनयापादनं च दोषोज्झनगुणविनयापादने ताभ्याम् ॥
सम्यक्त्वस्योद्योतनाराधनां विधापयिष्यन् मुमुक्षूंस्तदतीचारपरिहारे व्यापारयति -
दुःखप्रायभवोपायच्छेदोद्युक्तापकृष्यते ।
ग्लेश्यते वा येनासौ त्याज्यः शङ्कादिरत्ययः ॥ ७० ॥
त्याज्यो वज्यों मुमुक्षुभिः । कोसौ ? असावत्ययोऽतिचारः । किंविशिष्टः ? शङ्कादिः शङ्काकाङ्क्षाप्रमुखः । येन किम् ? येनापकृष्यते स्वकार्यकारित्वं हाप्यते लेश्यते वा स्वरूपेणाल्पीक्रियते । कासौ ? दृक् सम्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org