SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽध्यायः। १३७ रागद्वेषाविति नियतिरिति । पक्षे महेश्वरशक्तिविशेषः । तत्राद्यशक्तिर्हि पार्वती । तया चाहितातिशया सती नियतिर्भक्तान् प्रति परमाभ्युदयं करोतीति भावः । फेलेत्यादि, फेला भुक्तोच्छिष्टम् । सा चेह सुरेन्द्रादिविभूतिः । तां हि भुक्त्वा त्यक्त्वा च सम्यक्त्वाराधकाः । परमार्हन्त्यलक्ष्मीलक्षणं परमाभ्युदयं लब्ध्वा शिवं लभन्ते । तथा चोक्तम् देवेन्द्रचक्रमहिमानममेयमानं राजेन्द्रचक्रमवनीन्द्रशिरोर्चनीयम्। धर्मेन्द्रचक्रमधरीकृतसर्वलोकं, लब्ध्वा शिवं च जिनभक्तिरुपैति भव्यः॥ फेलां भोक्तारस्ताच्छील्यादिना भुजानाः फेलाभोक्तारः । अतथाभूतासथाभूताः कृतास्त्रिजगत्पतय उर्ध्वमध्याधोभुवनस्वामिनो यया यत्र वा। एवमनन्यसामान्यमहिमा सम्यक्त्वपरमप्रभुः कथमाराध्यत इति पृच्छ. न्तं प्रत्याहमिथ्याग् यो न तत्त्वं श्रयति तदुदितं मन्यतेऽतत्त्वमुक्तं, नोक्तं वा तागात्माऽऽभवंमयममृतेतीदमेवागमार्थः। निग्रन्थं विश्वसारं सुविमलमिदमेवामृताध्वेति तत्त्व,श्रद्धामाधाय दोषोज्झनगुणविनयापादनाभ्यां प्रपुष्येत् ॥६९।। प्रपुष्येत् प्रकृष्टपुष्टिं नयेत् । क्षायिकरूपां कुर्यादित्यर्थः। कोसौ ? मुमुक्षुः । काम् ? तत्त्वश्रद्धाम् । कथंभूताम् ? इदमेवागमार्थी निर्ग्रन्थं विश्वसारं सुविमलमिदमेवामृताध्वा इत्येवंस्वरूपाम् । किं कृत्वा ? आधाय अन्तःसन्निहितां कृत्वा । काभ्यां प्रपुष्येत् ? दोषोज्झनगुणविनयापादनाभ्यां । कुतो हेतोरेवं प्रपुष्येत् ? मिथ्यागित्यादि । स भवति । किंविशिष्टः ? मिथ्यागू मिथ्यादृष्टिः । यः किम् ? योन यति न प्रतिपद्यते। किं तत् ? तत्तत्त्वम् । किंविशिष्टम् ? उदितं 'यो युक्त्ये'त्यादिना प्रबन्धेन प्रागुक्तम् । तथा यो मन्यते प्रतिपद्यते । किं तद् ? अतत्त्वं यथोक्ततत्त्वांदन्यथाभूतम् । किंविशिष्टम् ? उक्तमुपदिष्टं नोक्तं वानुपदिष्टम् । तथा चोक्तम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy