________________
१३६
अनागारधर्मामृते
सुदृकू
वरिवस्यतां हे मुमुक्षवो, युष्माभिराराध्यताम् । कासौ ? सम्यष्टिः । किमात्मा ? शक्तिः । किंविशिष्टा ? आद्या प्रधानभूता । कस्य ? परमपुरुषस्य परमात्मनः । या किम् ? या प्रसीदति शङ्कादिमलकलङ्कविकलतया प्रसन्ना भवति । क ? नरि पुंसि । किं कुर्वती ? तन्वी दीर्घीकुर्वती । कां ? शिवरमासाचीक्षाम् । साची तिर्यगीक्षणमीक्षा साचीक्षा तिर्यक् प्रेक्षणम् । कटाक्ष इत्यर्थः । शिवरमाया मोक्षलक्ष्म्याः साचीक्षा शिवरमासाचीक्षा ताम् । मोक्षलक्ष्मीं तद्भवलभ्यां द्वित्रि. भवलभ्यां वा कुर्वतीत्यर्थः । तथा यया सुद्दशा कृप्तप्रभा आहितप्रभावातिशया सती नियतिः प्रक्रमात्पुण्यं सृजति निष्पादयति । कम् ? अभ्युद्यम् । कथं कृत्वा ? कृतपरपुरभ्रंशम् । सा च किंविशिष्टा ? फेला भोक्त्रीकृतत्रिजगत्पतिः । क्रियाविशेषणं चेदम् । परेण सम्यक्वापेक्षया मिथ्यात्वेन संपाद्यानि पुराणि शरीराणि एकेन्द्रियादिकायाः परपुराणि । तेषां भ्रंशोऽप्रादुर्भावः परपुरभ्रंशः । पक्षे, परेषां शत्रूणां पुराणि नगराणि परपुराणि तेषां भ्रंशो विनाशः । कृतः परपुरभ्रंशो यत्राभ्युदयसर्जन कर्मणि तदेवम् । सम्यक्त्वाराधको हि जीवः सम्यक्त्वग्रहणात्प्रागबद्वायुष्कश्चेत्तदा नरकादिदुर्गतिं न प्राप्नोति बद्धायुष्कोप्यधोनरक भूमिषकादिषु नोत्पद्यते । तथा चोक्तम्
।
छसु हेट्ठिमासु पुढविसु जोइसवणभवण सव्वइत्थीसु । वारस मिच्छुवाए सम्माइट्ठी ण उववण्णा ॥
एतेनेदमपि यौगमतं प्रत्युक्तं भवति
नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि । अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ॥
न चोपभोगात्प्रक्षये कर्मान्तरस्यावश्यंभावात्संसारानुच्छेदः, समाधिबलादुत्पन्नतत्त्वज्ञानस्यावगतकर्मसामथ्यत्पादितयुगपदशेषशरीरद्वारावाप्ताशेषभोगस्योपात्तकर्मप्रक्षयात् भाविक मत्पत्तिनिमित्तमिथ्याज्ञानजनितानुसंधानविकलत्वाच्च संसारोच्छेदोपपत्तेः । अनुसंधीयते गतं चित्तमनेनेत्यनुसंधानं
१ अवश्य मनु भोक्तव्यमित्यपि पाठोस्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org