SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽध्यायः। १३५ तस्य स्याद्रहशाकिनीगदरिघुप्रायाः पराश्चापद,स्तन्नाम्नापि वियन्ति यस्य वदते सदृष्टिदेवी हदि ॥६७ ॥ यस्य महात्मनः सदृष्टिदेवी सम्यग्दर्शनदेवता हृदि हृदये वदते वदितुं दीप्यते सुसिद्धा भवतीत्यर्थः । तस्य भीष्मा भयंकराः प्राणान्तोपसगवर्गसोद्यताः सिंहादयः शृगालादिरूपा अञ्जसा परमार्थेन स्युः । इति समुदायार्थः । तत्र स्यात् । कोसौ ? भीष्मः सिंहः केशरी । किंविशिष्टः? फेरुः शृगालः । कस्य संबन्धित्वेन? तस्य । कथम् ? अञ्जसा।तबुंकारमात्रेण भीष्मोपि सिंहो दूरं पलायते इत्यर्थः । तथा भीष्म इभस्तस्य स्तमः सात् । क्रूरोपि गजस्तेन छाग इव कर्णे धृत्वा आरुह्यते इत्यर्थः । तथा भी. मोप्यग्निस्तस्योदकं जलं स्यात् । जलवत्तेनोपयुज्यते इत्यर्थः । तथा भीष्मः फणी सर्पस्तस्य भूलता गण्डूपदः स्यात् । गण्डूपदवत्तेन लङ्घयते इत्यर्थः । तथा पाथोधिः समुद्रस्तस्य स्थलं स्यात् । तेन स्थलमिव गम्यते इत्यर्थः । तथाऽन्दुकः शृङ्खला तस्य मणिसरः स्यात् । मुक्ताफलमाला संपद्यते इत्यर्थः । तथा चौरस्तस्य दासः स्यात् । धनक्रीत इव तत्कर्म करोतीत्यर्थः । किं बहुना, वियन्ति नश्यन्ति । काः ? आपदो विनिपाताः । केन ? तन्नाम्नापि तस्य नामोच्चारणमात्रेणापि प्राणिनाम् । किं विशिष्टाः ? ग्रहशाकिनीगदरिपुप्रायाः। ग्रहाश्व शाकिन्यश्च गदाश्च ज्वरादिव्याधयो रिपवश्च शत्रवस्तदादयः। किंविशिष्टाः ? पराश्च प्रकृष्टा अपि । वदते इत्यत्र "दीत्युपोक्तिज्ञानेहविमत्युपमन्त्रणे वदत" इत्यनेनात्मनेपदम् ॥ मुमुक्षुन् सम्यग्दर्शनाराधनायां प्रोत्साहयन् दुर्गतिप्रतिबन्धपुरस्सरं परमाभ्युदयसाधनाङ्गत्वं साक्षान्मोक्षाङ्गत्वं च तस्य द्रढयितुमाह परमपुरुषस्याद्या शक्तिः सुदृग् वरिवस्थतां, नरि शिवरमासाचीक्षा या प्रसीदति तन्वती। कृतपरपुरभ्रंशं क्लुप्तप्रभाभ्युदयं यया सृजति नियतिः फेलाभोक्त्रीकृतत्रिजगत्पतिः ॥६८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy