________________
अनगारधर्मामृते
पृणतीति पृण प्रीणने तुदादिः ॥
पुण्यमपि सकलकल्याणनिर्माण सम्यक्त्वानुग्रहादेव समर्थ भवतीति प्रतिपादयितुमाह
वृक्षाः कण्टकिनोपि कल्पतरवो ग्रावापि चिन्तामणिः, पुण्यागौरपि कामधेनुरथवा तन्नास्ति नाभून्नवा । भाव्यं भव्यमिहांगिनां मृगयते यज्जातु तद्भुकुर्टि, सम्यग्दर्शनवेधसो यदि पदच्छायामुपाच्छन्ति ते ॥६६॥
अपिः सर्वत्र विस्मये । भवन्ति । के ? वृक्षाः। किंविशिष्टाः ? कण्टकिनोपि बब्बूलादयोपि । किमात्मानः ? कल्पतरवः कल्पवृक्षाः । कस्मात् ? पुण्यात् सुकृतविपाकात् । तथा भवति । कोसौ ? ग्रावापि । सामान्यपाषाणोपि । किमात्मा ? चिन्तामणिः । कस्मात् ? पुण्यात् । तथा भवति । कासौ ? गौरपि सामान्यसुरभिरपि । किं रूपा ? कामधेनुः । अथवा कियदतं वाच्यम् ? यावता तद्भव्यं कल्याणमिह लोकेऽगिनां प्राणिनां संबन्धि नास्ति न विद्यते, नाभून्न भूतं, नवा नापि भाव्यं भविष्यति । यत्किम् ? यजातु कदाचिदपि मृगयतेऽपेक्षते । काम् ? तनकुर्टि तस्य पुण्यस्य भृकुटिम् । इयमत्र भावना-ये सम्यग्दर्शनमाराधयन्ति तेषां तादृशं पुण्यमुपतिष्ठते येन त्रैकाल्येत्रैलोक्येपि ये तीर्थकरत्वपदपर्यन्ता अभ्युदयास्ते संपाद्यन्ते । भ्रकुटिवचनमन्त्रेदं लक्षयति-यो महान् प्रभुस्तदाज्ञां योतिक्रामति स तं प्रति क्रोधा कुटिमारचयति । न च सम्यक्त्वसहचारिपुण्यं केनापि संपादयितुमारब्धेनाभ्युदयेन लयेत । सर्वोप्यभ्युदयस्तदुदयानन्तरमेव संपद्यते इत्यर्थः । यदि किम् ? यदि तेङ्गिन उपार्च्छन्ति प्रामुवन्ति । काम् ? पदच्छा. यां प्रतिष्ठाप्रभां पादाश्रयं च । कस्य ? सम्यग्दर्शनवेधसः । सम्यग्दर्शनं वेधा इव सर्वपुरुषार्थसर्गे कामचारित्वात् ।। __ सुसिद्धसम्यग्दर्शनस्य न परं विपदपि संपद्भवति । किं तर्हि ? तन्नामोच्चारिणोपि विपद्भिः सद्यो मुच्यन्ते इति प्रकाशयतिसिंहः फेरुरिमः स्तभोग्निरुदकं भीष्मः फणी भूलता, पाथोधिः स्थलमन्दको मणिसरश्चौरश्च दासोञ्जसा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org