________________
द्वितीयोऽध्यायः।
जयतात् सर्वोत्कर्षेण वर्तताम् । कोसौ ? सः सम्यक्त्वतिग्मातिः। सम्यक्त्वं तिग्मद्युतिरादित्य इव बुभुक्षूणामिव मुमुक्षूणामाराध्यतमत्वात् । यः किम् ? यः पृणति प्रीणयति । कान् ? आराद्धृन् आराधकान् । कैः ? ईप्सितैर्वान्छिताथैः । किं कुर्वन् ? विकचयन् विकसितां कुर्वन् विकाशयन्नित्यर्थः । काम् ? कृपाम्भोजिनीम्। छ ? वि. वक सर्वभूतेषु सर्वभूतले च । कृपा अनुकम्पा अम्भोजिनी पद्मिनीवाल्हादहेतुत्वात् । किंविशिष्टः सन् ? आस्थितः आरूढः । कम्? रथम । किंविशिष्टम् ? संवेगच्छलं संवेगेन च्छल्यते स्वरूपतः प्रच्छाद्यते इति संवेगच्छलस्तम् । संवेगरूपं स्यन्दनमित्यर्थः। संवेगस्य रथेन साधर्म्य गगनस्येव संसारशेषस्य सुखेन लङ्घयहेतुत्वात् । किं कुर्वन् ? उद्यन् अर्ध्वमात्रामन् । कथं कृत्वा ? निर्दोषं निःशङ्का दिमलं । दोषेति रात्रेरभावेन च । किं कृत्वा ? निरस्य । कान् ? रागादिरिपून् । किंविशिष्टान् ? दुरसान् दुर्निवारान् । रागादयः सप्त मिथ्यात्वादयो रिपवः षष्टिकोटिसहस्रसंख्याः संदेहादिराक्षसा इव संध्यात्रयेपि सूर्यस्येव सम्यक्त्वस्य कालत्रयेपि प्रतिबन्धकत्वात् । निरस्येत्युदयतः स्वरूपतो वा काललब्ध्यादिना व्युच्छेद्य । पक्षे, ब्राह्मणैर्निपात्य सन्देहादि संध्योपास्त्यनन्तरदत्तार्धाञ्जलिजलबिन्दुवढस्त्रिसंध्यं किल द्विजैः कर्तृभिः सूर्येण निपात्यन्ते । तथा व्यक्तास्तिक्यपथः । आस्तिक्यं पन्था इवेष्ट स्थानप्राप्तिहेतुत्वात् । व्यक्तः प्रकटीकृत आस्तिक्यपथो येन स एवम् । तथा त्रिलोकमहितो जगत्रयपूजितः । तथा पन्थाः प्रात्युपायः । केषाम् ? शिवश्रीजुषाम् अनन्तज्ञानादिलक्षणां मोक्षलक्ष्मी प्रीत्या सेवितुमिच्छताम् । पक्षे, मोक्षस्थानं गच्छताम् । सिद्धा हि सूर्यमण्डलं भित्त्वा यान्तीति केचित् । तथा चोक्तं संन्यासविधौ--
संन्यसन्तं द्विजं दृष्ट्वा स्थानावलति भास्करः। एष मे मण्डलं मित्त्वा परं ब्रह्माधिगच्छति ॥ लोकेपि--
णमह परमेसरं तं कंपेते पाविऊण रविविम्बं । णिव्वाणजणियच्छिदं जेण कयं छारछाणणयं ॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org