________________
अनगारधर्मामृते
उपेयवदुपादेयेन स्वशुद्धात्मस्वरूपेण तुल्यम् । संवित्तिकान्ताश्रिता सम्यग्ज्ञप्तिप्रियायुक्तेन । स एष सम्यक्त्वानन्तरमाराध्यो मोक्षमार्गभूतो बोधः । न चानयोः पृथगाराधनं न संगच्छते लक्षणभेदेन भेदात् । तदुक्तम् — पृथगाराधनमिष्टं दर्शन सहभाविनोपि बोधस्य । लक्षणभेदेन यतो नानात्वं संभवत्यनयोः ॥
१३२
सम्यक्त्वप्रभुणा । सम्यक्त्वं च तत्प्रभुश्च । स परमाराध्यस्तत्प्रसादैकसाध्यत्वात्सिद्धेः । यत्तात्त्विकाः----
किं पलचिएण बहुणा सिद्धा जे गरवरा गए काले । सिज्झिहहिं जे विभविया तं जाणह सम्ममाहप्पं ॥
सम्यक्त्वं प्रभुरिवेत्यत्रोक्तिलेशपक्षे प्रभुः स्वमते शक्रादिः परमते तु पार्वतीपतिः श्रीपतिर्वा । तत्कान्ता च शच्यादिः पार्वत्यादिश्च । प्रणीतमहिमा प्रवर्तितमाहात्म्यः जेष्यति वशीकरिष्यते । सर्वज्ञः सर्वजगद्भोक्ता च भविष्यतीत्यर्थः । अत्र " तन्निसर्गादधिगमाद्वेति” वचनात् प्राच्येनाथ तदातनेनेत्यादिना सामग्र्यनुवादः । एतेन नैसर्गिकमधिगमजं चेति द्विधा सम्यक्त्वं बहिरङ्गकारणापेक्षया स्यादित्यपि प्रतिपत्तव्यम् । हेयमित्यादिना स्वरू पानुवादः प्रणीतेत्यादिना सम्यक्त्वस्य महिमाभिव्यक्तिः कृता मन्तव्या । भवति चात्रार्याद्वयम् —
तत्त्वपरीक्षाऽतत्त्वव्यवच्छिदा तत्त्वनिश्चयं जनयेत् । स च हग्मोहशमादौ तत्त्वरुचि सा च सर्वसुखम् ॥ शुभ परिणामनिरुद्धस्वरसं प्रशमादिकैरभिव्यक्तम् । स्यात्सम्यक्त्वमनन्तानुबन्धिमिध्यात्वमिश्रशमे ॥ निर्मलगुणालंकृतसम्यक्त्वस्य निरतिशयमाहात्म्ययोगितया सर्वोत्कर्षवृ
त्तिमाशंसति
यो रागादिरिपून्निरस्य दुरसान्निर्दोषमुद्यन् रथं, संवेगच्छलमास्थितो विकचयन्विष्व कृपाम्भोजिनीम् । व्यक्तास्तिक्यपथत्रिलोकमहितः पन्थाः शिवश्रीजुषा,माराद्धृन्पृणतीप्सितैः स जयतात्सम्यक्त्वतिग्मद्युतिः ।। ६५ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org