________________
rrrrrrrrrmirrrrrrrrrrrrrrrrrrrrrrrrrorm
द्वितीयोऽध्यायः।
mmmmmm दिनकृतेव आदित्येन यथा। दिनं करोतीति दिनकृत्तेन । किमर्थमुदेष्यता? कालारुणस्थामक्षामतमश्छिदे। __ अथ पदार्थः कथ्यते । प्राच्येन सम्यक्त्वोत्पत्तेः प्राग्भाविना तदातनेन सम्यक्त्वोत्पत्तिसमसमयभाविना गुरुवाग्बोधेन वाचो वचनस्योपलक्षणाद्धस्तसंज्ञादेश्च कार्यभूतो बोधो ज्ञानं वाग्बोध आगमज्ञानं तत्त्वार्थाधिगमइति यावत् । गुरुर्महान् , परोपदेशानपेक्षत्वात् । गुरुश्चासौ वाग्बोधश्च गुरुवारबोधो निसर्ग इति संज्ञितः । तथा गुरोर्धर्मोपदेशकस्य वाक् गुरुवाक् । तजन्यो बोधो गुरुवारबोधोऽधिगम इति संज्ञितः । तेनोभयेनापि प्राच्येन तदातनेन चा प्रकाशितं हेयमुपादेयं च तत्वं प्रतियता प्रतीतिविषयं कुर्वतेति संबन्धः । कालेत्यादि । कालशब्देनात्रोपलक्षणात् सम्यक्त्वोत्पत्तियोग्यका. लक्षेत्रद्रव्यभावचतुष्टयं ग्राह्यम् । अरुणः सूर्यसारथिः । कालोऽरुण इव दर्शनमोहान्धकारापकर्षनिमित्तत्वात् । कालारुणस्य स्थाम शक्तिः कालारुण. स्थाम। तेन क्षामं कृशीकृतं तमोदर्शनप्रतिबन्धकं कर्म ध्वान्तं च कालारुणस्थामक्षामतमः । तस्य च्छेदनं छित् निरासस्तच्छित् तस्यै । सम्यक्त्वोत्पत्तियोग्यसमयादिचतुष्टयसूर्यसारथिशक्त्या कृशीकृतस्य मिथ्यात्वस्य तिमिरस्य च निरासार्थमित्यर्थः । उदेष्यता सम्यग्भावाभिमुखेनोदयाभिमुखेन च । एतेन सम्यक्त्वोत्पत्तिनि मित्तभूतो बोधः स्वरूपेण सम्यक् सम्यक्त्वोत्पत्तिनिमित्तत्वेनैव सम्यगिति न मोक्षमार्ग इत्युक्तं स्यात् । अतः सम्यक्त्वसहजन्मैव बोधो मोक्षमार्ग इति प्रतिपत्तव्यम् । न चैवं तयोः कार्यकारणभावविरोधः, समसमयभावित्वेपि तयोः प्रदीपप्रकाशयोरिव तस्य सुघटत्वात् । तथा चोक्तम्
कारणकार्यविधानं समकालं जायमानयोरपि हि । दीपप्रकाशयोरिव सम्यक्त्वज्ञानयोःसुघटम्॥ अतएव सम्यक्त्वाराधनानन्तरं ज्ञानाराधनोपदेक्ष्यते । तदप्युक्तम्
सम्यग्ज्ञानं कार्य सम्यक्त्वं कारणं वदन्ति जिनाः। ज्ञानाराधनमिष्टं सम्यक्त्वानन्तरं तस्मात् ॥ तेनैतत्सितपटाचार्यवचनमनुचितम्
चतुर्वर्गाग्रणीर्मोक्षो योगस्तस्य च कारणम् । ज्ञानश्रद्धानचारित्ररूपं रत्नत्रयं च सः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org