SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ १३० अनगारधर्मामृते Vinod आज्ञासम्यक्त्वसाधनोपायमाह देवोर्हनेव तस्यैव वचस्तथ्यं शिवप्रदः। धर्मस्तदुक्त एवेति निर्बन्धः साधयेद् दृशम् ॥ ६३ ॥ साधयेदुत्पादयेद् ज्ञापयेच्च । कोसौ ? निर्बन्धोऽभिनिवेशः । काम् ? दृशम् । किमात्मा ? इत्येवस्वरूपः। तथाहि-भवति । कोसौ ? देवः। क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेषः । किमाख्यः ? अर्हन्नेव न बुधादिः । तथा भवति । किं तत् ? वचो वाक्यम् । किंविशिष्टम् ? तथ्यं सत्यम् । कस्य ? तस्यैवाहत एव, नच बुद्धादेः । तथा भवति । कोसौ ? धर्मः । किंविशिष्टः ? शिवप्रदोऽभ्युदयनिःश्रेयससंपादकः । केनोक्तः ? तदुक्त एव । तेनार्हता तद्वचसा वा प्रणीतो, न बुद्धादिना तदागमेन वा । अथ वृत्तपञ्चकेन सम्यग्दर्शनमहिमानमभिष्टौति । तत्र. तावद्विनेयानां सुखस्मृत्यर्थ तत्सामग्रीस्वरूपे अनूद्य संक्षेपेणानन्यसंभविनं तन्महिमानमभिव्यक्तुमाह प्राच्येनाथ तदातनेन गुरुवाग्बोधेन कालारुण,स्थामक्षामतमश्छिदे दिनकृतेवोदेष्यताविष्कृतम् । तत्वं हेयमुपेयवत्प्रतियता संवित्तिकान्ताश्रिता सम्यक्त्वप्रभुणा प्रणीतमहिमा धन्यो जगज्जेष्यति॥६॥ जेष्यति । कोसौ ? धन्यः कृतपुण्यः । किं तत् ? जगत् । निश्चयेन स्वचिन्मयं व्यवहारेण च जीवादिसमुदायमयं लोकम् । किंविशिष्टः सन् ? प्रणीतमहिमा । केन? सम्यक्त्वप्रभुणा । किंविशिष्टेन ? संवित्ति. कान्ताश्रिता । संवित्तिः सम्यग्ज्ञप्तिः । सैव कान्ता कथंचिदविभक्तत्वात् । संवित्तिकान्ता तां श्रयति भजत्यात्मना संबनातीति संवित्तिकान्ताश्रित्ते. न । किंकुर्वता ? प्रतियता । किं तत् ? तत्त्वम्। किंविशिष्टम् ? हेयम् । किंवत् ? उपेयवत् उपादेयवत् । पुनः किं विशिष्टम् ? आविष्कृतं प्र. काशितम् । केन? गुरुवाग्बोधेन । किंविशिष्टेन ? प्राच्येन । न केव. लम् । अथ अथवा तदातनेन । किं करिष्यता ? उदेष्यता । केनेव ? Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy