________________
द्वितीयोऽध्यायः।
१२९
दिकर्मणे । एष च शान्तिनाथादिदेवो भवति । किंविशिष्टः ? प्रभुः। कस्मै ? अस्मै शान्तिकादिकर्मणे । क सति ? अनन्तशक्तित्वे । किंविशिष्टे ? समेपि समानेपि । केषाम् ? सर्वेषामहतां तीर्थकराणाम् । अनन्ताः शक्तयो येषां तेऽनन्तशक्तयस्तेषां भावस्तत्त्वं तस्मिन् । किं च
कियन्तमपि यत्कालं स्थित्त्वा चलति तच्चलम् । वेदकं मलिनं जातु शङ्काधैर्यत्कलक्ष्यते ॥ यञ्चलं मलिनं चास्मादगाढमनवस्थितम् । नित्यं चान्तर्मुहूर्तादिषट्षष्ट्यब्ध्यन्तवर्ति यत् ॥ आज्ञासम्यक्त्वादिभेदानाह
आज्ञामार्गोपदेशार्थबीजसंक्षेपसूत्रजाः। विस्तारजावगाढासौ परमा दशधेति दृक् ॥ ६२ ॥ भवति । का ? असौ दृक् सम्यक्त्वम् । कतिधा ? दशधा दशप्रकारा । कथम् ? इति एवं, भवन्ति । काः ? दृशः । किंविशिष्टाः ? आज्ञादिजाः । आज्ञा च मार्गश्चोपदेशश्चार्थश्च बीजं च संक्षेपश्च सूत्रं चेति विगृह्य तेभ्यो जाताः सप्त । तथा भवति । कासौ ? दृक् । किंविशिष्टा ? विस्तारजा विस्ताराजाताष्टमी। तथा भवति । कासौ ? हक । कि. माख्या ? अवगाढा नवमी । तथा भवति । कासौ ? दृक् । किमा. ख्यासौ ? अवगाढा परमा प्रकर्षप्राप्ता परमावगाढाख्या दशमी च । इति दशधा दृक् ।
तत्राज्ञा जिनोक्तागमानुज्ञा । मार्गो रत्नत्रयविचारसर्गः । उपदेशः पुरा. णपुरुषचरितश्रवणाभिनिवेशः । अर्थः प्रवचनविषये स्वप्रत्ययसमर्थः। बीज सकलसमयदलसूचनाव्याजम् । संक्षेप आप्तश्रुतव्रतपदार्थसमासालापाक्षेपः । सूत्रं यतिजनाचरणनिरूपणमात्रम् । विस्तारो द्वादशाङ्गचतुर्दशपूर्वप्रकीर्णकविस्तीर्णश्रुतार्थसमर्थनप्रस्तारः । अवगाढा त्रिविधस्यागमस्य निःशेषतोन्यतमादेशावगाहालीढा । परमावगाढा अवधिमनःपर्ययकेवलाधिकपुरुषप्र. त्ययप्ररूढा ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org